असंशयं ध्यानपरो यथा वत्स तथा शृणु। अपत्यं नस्त्वमेवैकः कुले महति भारत
शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः। अनित्यतां च लोकानामनुशोचामि पुत्रक
कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम्। असंशयं त्वमेवैकः शतादपि वरः सुतः
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे। संतानस्याविनाशाय कामये भद्रमस्तु ते
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः। `चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत। चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः
अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः। सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्
एवमेतन्मनुष्येषु तच्च सर्वं प्रजास्विति। यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः
अपत्येनानृणो लोके पितॄणां नास्ति संशयः।' एषा त्रयी पुराणानां देवतानां च शाश्वती
अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत
त्वं च शूरः सदाऽमर्षी शस्त्रनित्यश्च भारत। नान्यत्र युद्धात्तस्मात्ते निधनं विद्यते क्वचित्
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्। इति ते कारणं तात दुःखस्योक्तमशेषतः
ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः। देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत्
अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः। सूतं भूयोऽपि संतप्त आह्वयामास वै पितुः
सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया। तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः
त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः। अपि जानासि यदि वै कस्यां भावो नृपस्य तु
दाशकन्या कुरुश्रेष्ठ तत्र भावः पितुर्गतः
वृतः स नरदेवेन तदा वचनमब्रवीत्। योऽस्यां पुमान्भवेज्जातः स राजा त्वदनन्तरम्
नाकामयत तं दातुं पिता तव वरं तदा। स चापि निश्चयस्तस्य न च दद्यां ततोऽन्यथा
ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च। ज्ञात्वा च मानसं पुत्रः प्रययौ यमुनां प्रति
क्षत्रियैः सह धर्मात्मा पुराणैर्धर्मचारिभिः। उच्चैश्श्रवसमागम्य कन्यां वव्रे पितुः स्वयम्
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च। अब्रवीच्चैनमासीनं राजसंसदि भारत
राज्यशुल्का प्रदातव्या कन्येयं याचतां वर। अपत्यं यद्भवेदस्याः स राजाऽस्तु पितुः परम्
त्वमेवात्र महाबाहो शान्तनोर्वंशवर्धनः। पुत्रः शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः
कुमारिकायाः शुल्कार्थं किंचिद्वक्ष्यामि भारत।' कोहि संबन्धखं श्लाघ्यमीप्सितं यौनमीदृशम्। अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः। यस्य शुक्रात्सत्यवती संभूता वरवर्णिनी
तेन मे बहुशस्तात पिता ते परिकीर्तितः। अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः
इयं सत्यवती देवी पितरं तेऽब्रवीत्तथा। अर्थितश्चापिराजर्षिः प्रत्याख्यातः पुरा मया
कन्यापितृत्वात्किंचित्तु वक्ष्यामि त्वां नराधिप। बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्
भूयांसं त्वयि पश्यामि तद्दोषमपराजित।' यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा
न स जातु चिरं जीवेत्त्वयि क्रुद्धे परन्तप। एतावानत्र दोषो हि नान्यः कश्चन पार्थिव