तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः। उक्षाणमिव सिंहेन पात्यमानमचेतसम्
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत्। पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रूथः
स बर्हिबर्हावततं किङ्किणीशतजालवत्। चर्म चादाय खङ्गं च नदन्पर्यपतद्रथात्
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम्। उत्पपात रथात्तूर्णं श्येनवन्निपपात च
प्रासपट्टिशनिस्त्रिंशाञ्छत्रुभिः सम्प्रचोदितान्। चिच्छेद चासिना कार्ष्णिश्चर्मणा संरुरोध च
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः। तमुद्यम्य महाखङ्गं चर्म चाथ पुनर्बली
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्। ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्
तौ परस्परमासाद्य खह्गदन्तनखायुधौ। हृष्टवत्सम्प्रजहाते व्याघ्रकेसरिणाविव
सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः। न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः
अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम्। बाह्यान्तरनिपातश्च निर्विशेमदृश्यत
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्। ददृशाते महात्मानौ सपक्षाविव पर्वतौ
ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः। शरावरणपक्षान्ते प्रजहार जयद्रथः
रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे। सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्। अदृश्यत निमेषेण स्वरथं पुनरास्थितः
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम्। सहिताः सर्वराजानः परिवव्रुः समन्ततः
ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः। ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा। तापयामास तत्सैन्यं भुवनं भास्करो यथा
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम्। चिक्षेप समरे घोरां दीप्तामग्निशिखामिव
तामवप्लुत्य जग्राह विकोशं चाकरोदसिम्। वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्
तस्य लाषवमाज्ञाय सत्वं चामिततेजसः। सहिताः सर्वराजानः सिंहनादमथानदन्
ततस्तामेव शल्यस्य सौभद्रः परवीरहा। मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम्
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा। जघान सूतं शल्यस्य रथाच्चैनमपातयत्
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः। सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ
यमौ च द्रौपदेयाश्च साधुसाध्विति चुक्रुशुः। बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम्। तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः। अभ्याकिरन्महाराज जलदा इव पर्वतम्
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवम्। आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्। दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया
शरा दश दिशो मुक्ता वृषसेनेन संयुगे। विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्
तस्य दीप्ता महाबाणा विविश्चेरुः सहस्रशः। भानोरिव महाराज घर्मकाले मरीचयः