ततोऽभ्ययात्स त्वरितो युद्धाकाङ्क्षी महाबलः। तेन चक्रे महद्युद्धमभिमन्युररिन्दमः
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत्। तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत्
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः। पञ्चभिस्तस्य विव्याध हयान्सूनं च सायकैः
ततः प्रहर्षयन्सेनां सिंहवद्विनदन्मुहुः। समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम्
तं तु सन्धितमाज्ञाय सायकं घोरदर्शनम्। द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः
तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा। उद्बबर्ह सितं खङ्गमाददनाः शरावरम्
स तेनानेकतारेण चर्मणा कृतहस्तवत्। भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः
भ्रामितं पुनरुद्धान्तमाधूतं पुनरुत्थितम्। चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत
स पौरवरथस्येषामाप्लुत्य सहसा नदन्। पौरवं रथमास्थाय केशपक्षे परामृशत्
जघानास्य पदा सूतमसिना पातयद्धृजम्। विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत्
तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः। उक्षाणमिव सिंहेन पात्यमानमचेतसम्
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत्। पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रूथः
स बर्हिबर्हावततं किङ्किणीशतजालवत्। चर्म चादाय खङ्गं च नदन्पर्यपतद्रथात्
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम्। उत्पपात रथात्तूर्णं श्येनवन्निपपात च
प्रासपट्टिशनिस्त्रिंशाञ्छत्रुभिः सम्प्रचोदितान्। चिच्छेद चासिना कार्ष्णिश्चर्मणा संरुरोध च
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः। तमुद्यम्य महाखङ्गं चर्म चाथ पुनर्बली
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्। ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्
तौ परस्परमासाद्य खह्गदन्तनखायुधौ। हृष्टवत्सम्प्रजहाते व्याघ्रकेसरिणाविव
सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः। न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः
अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम्। बाह्यान्तरनिपातश्च निर्विशेमदृश्यत
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्। ददृशाते महात्मानौ सपक्षाविव पर्वतौ
ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः। शरावरणपक्षान्ते प्रजहार जयद्रथः
रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे। सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्। अदृश्यत निमेषेण स्वरथं पुनरास्थितः
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम्। सहिताः सर्वराजानः परिवव्रुः समन्ततः
ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः। ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा। तापयामास तत्सैन्यं भुवनं भास्करो यथा
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम्। चिक्षेप समरे घोरां दीप्तामग्निशिखामिव
तामवप्लुत्य जग्राह विकोशं चाकरोदसिम्। वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्
तस्य लाषवमाज्ञाय सत्वं चामिततेजसः। सहिताः सर्वराजानः सिंहनादमथानदन्