शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः। विव्याध प्रहसन्बाणैर्लालयन्कोपयन्निव
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः। निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान्
धृष्टकेतुः कृपेणास्ताञ्छित्त्वा बहुविधाञ्छरान्। कृपं विव्याध सप्तत्या ध्वजं चास्य त्रिभिः शरैः
तं कृपः शरवर्षेण महता समवारयत्। विव्याध च रणे विप्रो धृष्टकेतुममर्षणम्
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे। विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव
तं भोजः सप्तसप्तत्या विद्ध्वाऽऽशु निशितैः शरैः। नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्
सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत्। स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत्
वैकर्तनं तु समरे विराटः प्रत्यवारयत्। सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत्
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम्। यत्सैन्यं वारयामास शरैः सन्नतपर्वभिः
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः। तयोर्युद्धं महाराज चित्ररूपमिवाभवत्
भगदत्तस्तु राजानं द्रुपदं नतपर्वभिः। सनियन्तृध्वजरथं विव्याध पुरुषर्षभः
द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम्। आजघानोरसि क्षिप्रं शरेणानतपर्वणा
युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ। भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम्। महता सायकौघेन च्छादयामास वीर्यवान्
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशाम्पते। नवत्या सायकानां तु कम्पयामास भारत
राक्षसौ रौद्रकर्माणौ हेडिम्बालम्बुसावुभौ। चक्रातेऽत्युद्भुतं युद्धं परस्परजयैषिणौ
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम्। अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ
चेकितानोऽनुविन्देन युयुधे चातिभैरवम्। यथा देवासुरे युद्धे बलशक्रौ महाबलौ
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम्। यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे
ततः प्रचलिताश्वेन विधिवत्कल्पितेन च। रथेनाभ्यपतद्राजन्सौभद्रं पौरवो पौरवो नदन्
ततोऽभ्ययात्स त्वरितो युद्धाकाङ्क्षी महाबलः। तेन चक्रे महद्युद्धमभिमन्युररिन्दमः
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत्। तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत्
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः। पञ्चभिस्तस्य विव्याध हयान्सूनं च सायकैः
ततः प्रहर्षयन्सेनां सिंहवद्विनदन्मुहुः। समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम्
तं तु सन्धितमाज्ञाय सायकं घोरदर्शनम्। द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः
तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा। उद्बबर्ह सितं खङ्गमाददनाः शरावरम्
स तेनानेकतारेण चर्मणा कृतहस्तवत्। भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः
भ्रामितं पुनरुद्धान्तमाधूतं पुनरुत्थितम्। चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत
स पौरवरथस्येषामाप्लुत्य सहसा नदन्। पौरवं रथमास्थाय केशपक्षे परामृशत्
जघानास्य पदा सूतमसिना पातयद्धृजम्। विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत्