यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ। प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान्प्रति
क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते। अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः। अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम
तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे। अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे
एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे'। सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे। गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत्। `स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष'। सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम
पाण्डवेयेषु सापेक्षं द्रोणं जानाति ते सुतः। ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान्। धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः। पार्षतो यत्र तत्रैनामभिनत्पाण्डुवाहिनीम्
शऱीरशतसम्बाधां केशशैवलशाद्वलाम्। नदीं प्रावर्तयद्राजन्भीरूपणां भयवर्धिनीम्
तर्जयन्तमनीकानि तानि तानि महारथम्। सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः
तानभिद्रवतः शूरांस्तावका दृढविक्रमाः। सर्वतः प्रत्यगृह्णन्त तदभूद्रोमहर्षणम्
शतमायस्तु शकुनिः सहदेवं समाद्रवत्। सनियन्तृध्वजरथं विव्याघ निशितैः शरैः
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि। नातिक्रुद्धः शरैश्छित्त्वा षष्ठ्या विव्याध सौबलम्। `भित्त्वा च शरवर्षेण शकुनिं प्रत्यवारयत्
गदां गृहीत्वा शकुनिः प्रचस्कन्द रथोत्तमात्। स तस्य गदया राजन्रथात्सूतमपातयत्
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ। चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ
द्रोणः पाञ्चालदायादं विव्याध निशितैः शरैः। तयोस्तत्र महाराज बाणवर्षैः प्रकाशितम्। खद्योतैरिव चाकाशं प्रदोषे पुरुषर्षभ
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः। विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत्
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम्। भीमं चक्रे महाराज ततः सैन्यान्यपूजयन्
स तन्न ममृषे वीरः शत्रोर्विक्रममाहवे। ततोऽस्य गदया दान्तान्हयात्सर्वानपातयत्
हताश्वात्स रथाद्राजन्गृह्य चर्म महाबलः। अभ्ययाद्भीमसेनं तु मत्तो मत्तमिव द्विपम्
शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः। विव्याध प्रहसन्बाणैर्लालयन्कोपयन्निव
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः। निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान्
धृष्टकेतुः कृपेणास्ताञ्छित्त्वा बहुविधाञ्छरान्। कृपं विव्याध सप्तत्या ध्वजं चास्य त्रिभिः शरैः
तं कृपः शरवर्षेण महता समवारयत्। विव्याध च रणे विप्रो धृष्टकेतुममर्षणम्
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे। विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव
तं भोजः सप्तसप्तत्या विद्ध्वाऽऽशु निशितैः शरैः। नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्
सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत्। स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत्
वैकर्तनं तु समरे विराटः प्रत्यवारयत्। सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत्
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम्। यत्सैन्यं वारयामास शरैः सन्नतपर्वभिः
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः। तयोर्युद्धं महाराज चित्ररूपमिवाभवत्