तस्य नप्तारमायान्तं शैब्यं कः समवारयत्। द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः। प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्
सद्यो वृकोदराज्जातो महाबलपराक्रमः। मायावी राक्षसो वीरो यस्मान्मम महद्भयम्
पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम्। घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्
एते चान्ये च बहवो येषामजितं युधि। त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः।। लोकानां गुरुरत्यर्थं लोकनाथः सनातनः
नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः।। यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः। अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः
उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान्। पृथुश्च विपृथुश्चैव शमीङ्कोऽथारिमेजयः
एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः। कथंचित्पाण्जवानीकं श्रयेयुः समरे स्थिताः
आहूता वृष्णिवीरेण केशवेन महात्मना। ततः संशयितं सर्वे भवेदिति मतिर्मम
नागायुतबलो वीरः कैलासशिखरोपमः। वनमाली हली रामस्तत्र यत्र जनार्दनः
यमाहुः सर्वपितरं वासुदेवं द्विजातयः। अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय
स यदा तात सन्नह्येत्पाण्डवार्थाय सञ्जय। न तदा प्रतिसंयोद्धा भविता तत्र कश्चन
यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान्। वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे। कौरवांश्च महाबाहुःकुन्त्यै दद्यात्स मेदिनीम्
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः। रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः
न केनचिदुपायेन कुरूणां दृश्यते जयः। तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः। अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती
सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः। प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणाः
मोहाद्दुर्योधनः कृष्णं यो न वेत्तीह केशवम्। मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्। पूर्वदेवौ महात्मानौ नरनारायणावुभौ
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि। मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ
नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः। युगस्येव विपर्यासो लोकानामिव मोहनम्
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः। न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च
न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निर्वायते। लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ
भीष्मद्रोणौ हतौ श्रुत्वा किन्नु जीवामि सञ्जय। यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे
अद्य तामनुजानीमो भीष्मद्रोणवधेन ह। मत्कृते चाप्यनुप्राप्तः कुरूणामेष सङ्क्षयः
पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत। अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः