यः पुत्रं काशिराजस्य वाराणस्यां महारथम्। समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्। युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च
निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः। द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्
उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम्। शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन्
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्। महता रथघोषेण मुख्यारिघ्नो महारथः
दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान्। निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः
विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत्। गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः। तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे
न पूर्वे नापरे चक्रुरिदं केचन मानवाः। इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु। जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम्
अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत। गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः
तस्य नप्तारमायान्तं शैब्यं कः समवारयत्। द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः। प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्
सद्यो वृकोदराज्जातो महाबलपराक्रमः। मायावी राक्षसो वीरो यस्मान्मम महद्भयम्
पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम्। घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्
एते चान्ये च बहवो येषामजितं युधि। त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः।। लोकानां गुरुरत्यर्थं लोकनाथः सनातनः
नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः।। यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः। अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः
उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान्। पृथुश्च विपृथुश्चैव शमीङ्कोऽथारिमेजयः
एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः। कथंचित्पाण्जवानीकं श्रयेयुः समरे स्थिताः
आहूता वृष्णिवीरेण केशवेन महात्मना। ततः संशयितं सर्वे भवेदिति मतिर्मम
नागायुतबलो वीरः कैलासशिखरोपमः। वनमाली हली रामस्तत्र यत्र जनार्दनः
यमाहुः सर्वपितरं वासुदेवं द्विजातयः। अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय
स यदा तात सन्नह्येत्पाण्डवार्थाय सञ्जय। न तदा प्रतिसंयोद्धा भविता तत्र कश्चन
यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान्। वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे। कौरवांश्च महाबाहुःकुन्त्यै दद्यात्स मेदिनीम्
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः। रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः
न केनचिदुपायेन कुरूणां दृश्यते जयः। तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः। अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती