समयेन प्रदद्यां ते कन्यामहमिमां नृप। न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति
श्रुत्वा तव वरं दाश व्यवस्येयमहं तव। दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन
अस्यां जायेत यः पुत्रः स राजा पृथिवीपते। त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव
नाकामयत तं दातुं वरं दाशाय शान्तनुः। शरीरजेन तीव्रेण दह्यमानोऽपि भारत
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः। प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः
ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम्। पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः। तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः
ध्यायन्निव च मां राजन्नाभिभाषसि किंचन। न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः
व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै
विवर्तुं नाशकत्तस्मै पिता पुत्रस्य शान्तनुः।' एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत
असंशयं ध्यानपरो यथा वत्स तथा शृणु। अपत्यं नस्त्वमेवैकः कुले महति भारत
शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः। अनित्यतां च लोकानामनुशोचामि पुत्रक
कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम्। असंशयं त्वमेवैकः शतादपि वरः सुतः
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे। संतानस्याविनाशाय कामये भद्रमस्तु ते
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः। `चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत। चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः
अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः। सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्
एवमेतन्मनुष्येषु तच्च सर्वं प्रजास्विति। यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः
अपत्येनानृणो लोके पितॄणां नास्ति संशयः।' एषा त्रयी पुराणानां देवतानां च शाश्वती
अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत
त्वं च शूरः सदाऽमर्षी शस्त्रनित्यश्च भारत। नान्यत्र युद्धात्तस्मात्ते निधनं विद्यते क्वचित्
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्। इति ते कारणं तात दुःखस्योक्तमशेषतः
ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः। देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत्
अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः। सूतं भूयोऽपि संतप्त आह्वयामास वै पितुः
सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया। तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः
त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः। अपि जानासि यदि वै कस्यां भावो नृपस्य तु
दाशकन्या कुरुश्रेष्ठ तत्र भावः पितुर्गतः
वृतः स नरदेवेन तदा वचनमब्रवीत्। योऽस्यां पुमान्भवेज्जातः स राजा त्वदनन्तरम्
नाकामयत तं दातुं पिता तव वरं तदा। स चापि निश्चयस्तस्य न च दद्यां ततोऽन्यथा
ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च। ज्ञात्वा च मानसं पुत्रः प्रययौ यमुनां प्रति
क्षत्रियैः सह धर्मात्मा पुराणैर्धर्मचारिभिः। उच्चैश्श्रवसमागम्य कन्यां वव्रे पितुः स्वयम्