स बाणवर्षं सुमहदसृजत्पार्षतं प्रति। मघवान्समभिक्रुद्धः सहसा दानवानिव
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः। पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः
तथा पर्यपतद्रोणः पाण्डवानां बले बली। अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम्। स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम्
शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः। चेकितानं महेष्वासं कस्तं द्रोणादवारयत्
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि। अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः। इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः। तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन्
यं योधयन्तो राजानो नाजयन्वारणावते। षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम्। द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्
यः पुत्रं काशिराजस्य वाराणस्यां महारथम्। समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्। युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च
निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः। द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्
उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम्। शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन्
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्। महता रथघोषेण मुख्यारिघ्नो महारथः
दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान्। निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः
विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत्। गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः। तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे
न पूर्वे नापरे चक्रुरिदं केचन मानवाः। इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु। जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम्
अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत। गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः
तस्य नप्तारमायान्तं शैब्यं कः समवारयत्। द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः। प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्
सद्यो वृकोदराज्जातो महाबलपराक्रमः। मायावी राक्षसो वीरो यस्मान्मम महद्भयम्
पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम्। घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्
एते चान्ये च बहवो येषामजितं युधि। त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः।। लोकानां गुरुरत्यर्थं लोकनाथः सनातनः
नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः।। यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः। अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः
उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान्। पृथुश्च विपृथुश्चैव शमीङ्कोऽथारिमेजयः