एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु। जिगीषन्तो सुरान्सङ्ख्ये कार्तिकेयमिवामराः
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह। अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः
स पाण्डवानां महतीं महेष्वासो महाद्युतिः। वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सहसृञ्जयैः। प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक्
विक्षोभ्यमाणआ द्रोणेन भिद्यमाना महाचमूः। व्यशीर्यत सपाञ्चाला वातेनेव वलाहकाः
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे। अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्
ते वध्यमाना द्रोणेन वासवेनेव दानवाः। पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः। अभिनच्छरवर्षेण द्रोणानीकमनेकधा
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः। सन्निवार्य ततः सर्वान्कुरूनप्यवधीद्बली
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे। स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत्
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति। मघवान्समभिक्रुद्धः सहसा दानवानिव
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः। पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः
तथा पर्यपतद्रोणः पाण्डवानां बले बली। अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम्। स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम्
शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः। चेकितानं महेष्वासं कस्तं द्रोणादवारयत्
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि। अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः। इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः। तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन्
यं योधयन्तो राजानो नाजयन्वारणावते। षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम्। द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्
यः पुत्रं काशिराजस्य वाराणस्यां महारथम्। समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्। युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च
निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः। द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्
उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम्। शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन्
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्। महता रथघोषेण मुख्यारिघ्नो महारथः
दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान्। निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः
विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत्। गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः। तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे
न पूर्वे नापरे चक्रुरिदं केचन मानवाः। इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु। जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम्
अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत। गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः