यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च। वासुदेवः सात्यकिः सृंजयाश्च मन्ये बलं तदजय्यं महीपैः
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे किरीटिनम्। तथापि हन्तास्मि समेत्य सङ्ख्ये यास्यामि वा भीष्ममुखो यमाय
न त्वेवाहं न गमिष्यामि तेषां मध्ये शराणां तत्र चाहं ब्रवीमि। मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः
समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम्। पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय
सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः। ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य
वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना। सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः
हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः। स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः
क्षत्रियान्तकरो घोरो देवदानवदर्पहा। `सोप्यद्याभिहतः शेते शरैः प्रोतः शिखण्डिना
तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः। आशीविषं हष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम्
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि। एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुस्तव
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु। जिगीषन्तो सुरान्सङ्ख्ये कार्तिकेयमिवामराः
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह। अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः
स पाण्डवानां महतीं महेष्वासो महाद्युतिः। वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सहसृञ्जयैः। प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक्
विक्षोभ्यमाणआ द्रोणेन भिद्यमाना महाचमूः। व्यशीर्यत सपाञ्चाला वातेनेव वलाहकाः
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे। अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्
ते वध्यमाना द्रोणेन वासवेनेव दानवाः। पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः। अभिनच्छरवर्षेण द्रोणानीकमनेकधा
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः। सन्निवार्य ततः सर्वान्कुरूनप्यवधीद्बली
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे। स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत्
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति। मघवान्समभिक्रुद्धः सहसा दानवानिव
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः। पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः
तथा पर्यपतद्रोणः पाण्डवानां बले बली। अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम्। स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम्
शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः। चेकितानं महेष्वासं कस्तं द्रोणादवारयत्
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि। अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः। इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः। तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन्
यं योधयन्तो राजानो नाजयन्वारणावते। षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम्। द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्