त्वया तु पाण्डवेयेषु निहतेषु महामृधे। दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव
हते वा त्वयि पार्थैस्तु युधि स्वर्गमुपेयुषि। हन्तास्म्येकरथेनैव कृत्स्नान् यान्मन्यसे रथान्
एवमुक्त्वा महाबाहुर्दशाहान्येक एव स। नायुध्यत ततः कर्णः पुत्रस्य तव संयते
भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत। जघान समरे योधानसङ्ख्येयपराक्रमः
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि। त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम्
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः। हा कर्ण इति चाक्रन्दन्कालोऽयमिति अब्रुवन्
एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम् चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्। अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव
स हि शक्तो रणे राजञ्स्त्रातुमस्मान्महाभयात्।। त्रिदशानिव गोविन्दः सततं सुमहाभयात्
तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः। आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा। उप्यरक्षत्स राधेयः सूतपुत्रस्तनुत्यजः
अपि तन्न मृषाकार्षीत्कच्चित्सत्यपराक्रमः। सम्भान्तानां तदार्तानां त्रस्तानां त्राणमिच्छतां
अपि तत्पूरयांचक्रे धनुर्धरवरो युधि। यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम्
तत्खण्डं पूरयन्कर्णः परेषामादधद्भयम्। स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते
आर्तानां बान्धवानां च क्रन्दतां च विशेषतः। परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च। कृतवान्मम पुत्राणां जयाशां सफलामपि
युधिष्ठिरो धृतिमतिसत्यसत्ववान् वृकोदरो गजशततुल्यविक्रमः। तथार्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः। न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते भृत्युमुखादिवासुभृत्
तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः। मनश्च मे शत्रुनिवारणे ध्रुं स्वरक्षणे चाचलवद्व्यवस्थितम्
एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत। मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात्स मित्रम्
कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम्। सर्वान्सङ्ख्ये शत्रुशङ्घान्हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये
संप्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्रे। मया कृत्यमिति जानामि सूत तस्माद्राज्ञस्त्वद्य शत्रून्विजेष्ये
कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन्। सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धर्मxxxxxxxx
निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि। शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चाग्निविपाहिकल्पान्
उपासङ्गान्पोडश योजयन्तु धनूम्पि दिव्यानि तथाऽऽहरन्तु। असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रनालम्
इमां रौक्मीं नागकक्ष्यां विचित्रां ध्वजं जैत्रं दिव्यमिन्दीवराङ्कम्। श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम्
अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान् पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः। तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व
रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं सूर्यचन्द्रप्रकाशैः। द्रव्यैर्युक्तं सम्प्रहारोपपन्नैर्बाहैर्युक्तं तूर्णमावर्तयस्व
चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः सन्नहनोपपन्नाः। तूणांश्च पूर्णान्महतः शराणामासाद्य गात्रावरणानि चैव
प्रायात्रिकं चानयताशु सर्वं पूर्णं कान्त्या वीरकांस्यां च हैमम्। आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः
प्रयाहि मूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च। तान्वा हनिष्यामि समेत्य सङ्ख्ये भीष्मो यथैष्यामि हतो द्विषद्भिः