विष्वग्वाताहतिक्षुब्धा नौरिवासीन्महार्णवे। बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा। विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः। पाताल इव मज्जन्तो हीना देवव्रतेन ते
कर्णस्य कुरवोऽस्मार्षुः स हि देवव्रतोपमः। सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्
बन्धुमापद्गतस्येव तमेवोपागमन्मनः। चुक्रुशुः कर्णकर्णेति तत्र भारत पार्थिवाः
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्। स हि नाबुध्यत तदा दशाहानि महायशाः
सामात्यबन्धुः कर्णो वै तमानयत माचिरम्। भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः
रथेषु गण्यमानेषु बलविक्रमशालिषु। सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः
रथातिरथसङ्ख्यायां योऽग्रणीः शूरसम्भतः। सासुरानपि देवेशान्रणे यो योद्धुमुत्सहेत्
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान्। त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन
त्वया तु पाण्डवेयेषु निहतेषु महामृधे। दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव
हते वा त्वयि पार्थैस्तु युधि स्वर्गमुपेयुषि। हन्तास्म्येकरथेनैव कृत्स्नान् यान्मन्यसे रथान्
एवमुक्त्वा महाबाहुर्दशाहान्येक एव स। नायुध्यत ततः कर्णः पुत्रस्य तव संयते
भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत। जघान समरे योधानसङ्ख्येयपराक्रमः
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि। त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम्
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः। हा कर्ण इति चाक्रन्दन्कालोऽयमिति अब्रुवन्
एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम् चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्। अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव
स हि शक्तो रणे राजञ्स्त्रातुमस्मान्महाभयात्।। त्रिदशानिव गोविन्दः सततं सुमहाभयात्
तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः। आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा। उप्यरक्षत्स राधेयः सूतपुत्रस्तनुत्यजः
अपि तन्न मृषाकार्षीत्कच्चित्सत्यपराक्रमः। सम्भान्तानां तदार्तानां त्रस्तानां त्राणमिच्छतां
अपि तत्पूरयांचक्रे धनुर्धरवरो युधि। यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम्
तत्खण्डं पूरयन्कर्णः परेषामादधद्भयम्। स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते
आर्तानां बान्धवानां च क्रन्दतां च विशेषतः। परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च। कृतवान्मम पुत्राणां जयाशां सफलामपि
युधिष्ठिरो धृतिमतिसत्यसत्ववान् वृकोदरो गजशततुल्यविक्रमः। तथार्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः। न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते भृत्युमुखादिवासुभृत्
तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः। मनश्च मे शत्रुनिवारणे ध्रुं स्वरक्षणे चाचलवद्व्यवस्थितम्
एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत। मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात्स मित्रम्
कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम्। सर्वान्सङ्ख्ये शत्रुशङ्घान्हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये