ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च । देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः । दैवं पुरुषकारेण न शक्यमतिवर्तितुम्
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन। संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम्
मया भवतु निर्वृत्तं वैरमादित्यनन्दन । पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः
जानाम्येव महाबाहो सर्वमेतन्न संशयः। यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः। भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे
वसुदेवसुतो यद्वत्पाण्डवाय दृढव्रतः । वमु चैव शरीरं च पुत्रदारं तथा यशः
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण । मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव
कोपिताः पाण्डवा नित्यं मयाऽश्रित्य सुयोधनम् । अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम्
दैवं पुरुषकारेण को विवर्तितुमुत्सहेत्। पृथिवीक्षयसंशीनि निमित्तानि पितामह
भवद्भिरुपलब्धानि कथितानि च संसदि । पाण्डवा वासुदेवश्च विदिता मम सर्वशः
अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे। विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः
न च शक्यमवस्रष्टुं वैरमेतत्सुदारुणम् । धनंजयेन योत्स्येऽहं स्वधर्मप्रीतमानसः
अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् । अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः
दुरुक्तं विप्रतीपं वा रभसाच्चापलात्तथा । यन्मयेह कृतं किंचित्तन्मे त्वं क्षन्तुमर्हसि
न चेच्छक्यमवस्रष्टुं वैरमेतत्सुदारुणम्। अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया
निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह। यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान्
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि । क्षत्रधर्मजिताँल्लोकानवाप्स्यसि धनंजयात्
युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः । धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते
प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया। न चैव शकितः कर्तुं यतो धर्मस्ततो जयः
इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च। राधेयो रथमारुह्य प्रायात्तव सुतं प्रति
इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया। शृण्वते ते महाराज प्रोक्तं पापहरं शुभम्
यः श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान् । श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि
विधूय सर्वपापानि विहायान्ते कलेवरम् । प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते
तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ। शृणुयात्सिद्धिमन्विच्छन्निह वामुत्र मानवः
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् । भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम्
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी। द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा। आसुरीव यथा सेना निगृहीते नृपे बलौ
विधवेव वारारोहा शुष्कतोयेव निम्नगा। वृकैरिव वने रुद्धा पृषती हतयूथपा
शरभाऽऽहतसिंहेव महती गिरिकन्दरा। सा सेना भरतश्रेष्ठे पतिते जाह्नवीसुते