यावन्न ते चमूः सर्वाः शरैः सन्नतपर्वभिः । नाशयत्यर्जुनस्तावत्संधिस्ते तात य्रुज्यताम्
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः । नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम्
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् । युधिष्ठिरो रणे तावत्संधिस्ते तात युज्यताम्
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः। यावच्चमूं महाराज नाशयन्ति न सर्वशः
तावत्ते पाण्डवैर्वीरैः सौहार्दं मम रोचते। युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ। एतत्क्षममहं मन्ये तव चैव कुलस्य च
त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः पर्याप्तमेतद्यत्कृतं फल्गुनेन । भीष्मस्यान्तादस्तु वः सौहृदं च जीवन्तु शेषाः साधु राजन्प्रसीद
राज्यस्यार्दं दीयतां पाण्डवाना- मिन्द्रप्रस्थं धरमराजोऽभियातु। मा मित्रध्रुक्पार्थिवानां जघन्यः पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र
ममावसानाच्छान्तिरस्तु प्रजानां संगच्छन्तां पाण्डवाः प्रीतिमन्तः। पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन्
न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या । तप्स्यस्यन्ते एतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि
एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा। तूष्णीमासीच्छल्यसंतप्तमर्मा योज्यात्मानं वेदनां संनियम्य
धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम् । नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम्
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः । तूष्णींभूते महाराज भीष्मे शन्तनुनन्दने
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः । ईषदागतसंत्रासस्त्वरयोपजगाम ह
स ददर्श महात्मानं शरतल्पगतं तदा। जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम्
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा । अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः
राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव । द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह
तच्छ्रुत्वा कुरुवृद्धो हि शरैः संवृतलोचनः। रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः
पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना । शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत्
न विप्रियं ममैवेह यत्स्पर्धेथा मया सह । यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत्
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता। सूर्यजस्त्वं महाबाहो विदितो नारदान्मया
कृष्णद्वैपायनाच्चैव तेजसा च न संशयः । न च द्वेषोस्ति मे तात त्वयि सत्यं ब्रवीमि ते
तेजोवधनिमित्तं तु परुषं त्वाहमब्रुवम्। अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम
येनासि बहुशो राज्ञा चोदितः सूतनन्दन । जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी
नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि । तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि
जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि । ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम्
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम। कुलभेदभयाच्चाहं सदा परुषमुक्तवान्
इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा । सदृशः फल्गुनेनासि कृष्णेन च महात्मना
कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता । कन्यार्थे कुरुराजस्य राजानो मृदिता युधि
तथा च बलवान्राजा जरासन्धो दुरासदः। समरे समरश्लाघिन्न त्वया सदृशोऽभवत्