अथोपेत्य महाबाहुरभिवाद्य पितामहम् । अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत्
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्। अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम्
दह्यतीव शरीर मे संवृतस्य तवेषुभिः। मर्माणि परिदूयन्ते मुखं च परिशुष्यति
वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन। त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्। अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः। शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम्
संधाय च शरं दीप्तमभिमन्त्र्य स पाण्डवः। पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे । उत्पपात ततो धारा वारिणो विमला शुभा
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च । अतर्पयत्ततः पार्थः शीतया जलधारया
भीष्मं कुरूणामृषभं दिव्यं दिव्यपराक्रमम् । कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः । तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम्
संप्रावेपन्त कुरवो गावः शीतार्दिता इव। विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत्। तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत्
सर्वपार्थिववीराणां सन्निधौ पूजयन्निव । नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन
कथितो नारदेनासि पूर्वर्षिरमितद्युते । वासुदेवसहायस्त्वं महत्कर्म करिष्यसि
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् । विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु
मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः। सरितं सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः । जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनां
न वै श्रुतं धार्तराष्ट्रेण वाक्यं मयोच्यमानं विदुरेण चैव। द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः सञ्जयेनापि चोक्तम्
परीतबुद्धिर्हि विसंज्ञकल्पो दुर्योधनो न च तच्छ्रद्दधाति। स शेष्यते वै निहतश्चिराय शास्त्रातिगो भीमबलाभिभूतः
एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव। तमब्रविच्छान्तनवोऽभिवीक्ष्य निबोध राजन्भव वीतमन्युः
दृष्टं दुर्योधनैतत्ते यथा पार्थेन धीमता। जलस्य धारा जनिता शीतस्यामृतगन्धिनः
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते। आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्
ऐन्द्रं पाशुपतं ब्रह्मं पारमेष्ठ्यं प्रजापतेः । धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः। कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन
अशक्यः पाण्डवस्तात युद्धे जेतुं कथंचन । अमानुषाणि कर्माणि यस्यैतानि महात्मनः
तेन सत्ववता सङ्ख्ये शूरेणाहवशोभिना । जिष्णुना समरे राजन्संधिर्भवतु मा चिरम्
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम। तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम्