नैष धर्मो महीपालाः शरतल्पगतस्य मे । एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव। वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः । स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः
उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः । सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः
उपगम्य महात्मानं शयानं शयने शुभे
तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिःप्रदक्षिणम्। विधाय रक्षां भीष्मस्य सर्व एव समन्ततः
वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः । निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः
निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् । भीष्मस्य पतनं दृष्ट्वा उपगम्य महाबलः
उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् । दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः
अवध्यो मानुषैरेव सत्यसन्धो महारथः । अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुष
तव प्रसादाद्विजयः क्रोधात्तव पराजयः । त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव । रक्षिता समरे नित्यं नित्यं चापि हिते रतः
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः। तवैवैतद्युक्तरूपं वचनं पार्थिवोत्तम
व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः। पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन्पितामहम्
तं वीरशयने वीरं शयानं कुरुसत्तम। अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम्
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः । अवाकिरञ्छान्तनवं तत्र गत्वा सहस्रशः
स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाश्च पृथग्जनाः । समभ्ययुः शान्तनवं भूतानीव तमोनुदम्
तूर्याणि शतसङ्ख्यानि तथैव नटनर्तकाः। शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम्
उपागम्य च राजेन्द्र सन्नहान्विप्रमुच्य ते। आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः
अन्वासन्त दुराधर्षं देवव्रतमरिंदमम्। अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता। शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम्
विबभौ च नृपाणां सा गङ्गासुतमुपासताम्। देवानामिव देवेशं पितामहमुपासताम्
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ । अभितप्तः शरैश्चैव नातिहृष्टमनाऽब्रवीत्
शराभितप्तकायो हि शस्त्रसंपातमूर्च्छितः । पानीयमित संप्रेक्ष्य राज्ञस्तान्प्रत्यभाषत
ततस्ते क्षत्रिया राजन्नुपाजह्रुः समन्ततः । भक्ष्यानुच्चावचान्राजन्वारिकुम्भांश्च शीतलान्
उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत्। न मेऽद्य सेवितुं योग्या भोगाः केवलमानुषाः
अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम्। प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः
एवमुक्त्वा तदोवाच भीष्मः शरशतैश्चितः। पयः पास्यामि गोपाला गोमयं न तु गोमयम्। गोपयेनाग्निवर्णेन गोमयं न तु गोमयम्
एवमुक्त्वा शान्तनवो निन्दन्वाक्येन पार्थिवान्। अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत