गृहाणेमं महाराज मया संवर्धितं सुतम्। आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो
वेदानधिजगे साङ्गान्वसिष्ठादेष वीर्यवान्। कृतास्त्रः परमेष्वासो देवराजसमो युधि
सुराणां संमतो नित्यमसुराणां च भारत। उशा वेद यच्छास्त्रमयं तद्वेद सर्वशः
तथैवाङ्गिरसः पुत्रः सुरसुरनमस्कृतः। यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम्
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि। ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान्
यदस्त्रं वेद राभश्च तदेतस्मिन्प्रतिष्ठितम्। महेष्वासमिमं राजन्राजधर्मार्थकोविदम्
इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत।' तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः
भ्राजमानं यथाऽदित्यमाययौ स्वपुरं प्रति। पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम्
सर्वकामसमृद्धार्थं मेने सोत्मानमात्मना। पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम्
गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत्। पौरवाञ्शान्तनोः पुत्रः पितरं च महायशाः
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ। स तथा सह पुत्रेण रममाणो महीपतिः
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः। स कदाचिद्वनं यातो यमुनामभितो नदीम्
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम्। तस्य प्रभवमन्विच्छन्विचचार समन्ततः
स ददर्श तदा कन्यां दाशानां देवरूपिणीम्। तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम्
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि। साऽब्रवीद्दाशकन्याऽस्मि धर्मार्थं वाहये तरिम्
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः। रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्
समीक्ष्य राजा दाशेयीं कामयामास शान्तनुः। स गत्वा पितरं तस्या वरयामास तां तदा
पर्यपृच्छत्ततस्तस्याः पितरं सोत्मकारणात्। स च तं प्रत्युवाचेदं दाशराजो महीपतिम्
जातमात्रैव मे देया वराय वरवर्णिनी। हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ। सत्यवागसि सत्येन समयं कुरु मे ततः
समयेन प्रदद्यां ते कन्यामहमिमां नृप। न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति
श्रुत्वा तव वरं दाश व्यवस्येयमहं तव। दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन
अस्यां जायेत यः पुत्रः स राजा पृथिवीपते। त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव
नाकामयत तं दातुं वरं दाशाय शान्तनुः। शरीरजेन तीव्रेण दह्यमानोऽपि भारत
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः। प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः
ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम्। पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः। तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः
ध्यायन्निव च मां राजन्नाभिभाषसि किंचन। न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः
व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै
विवर्तुं नाशकत्तस्मै पिता पुत्रस्य शान्तनुः।' एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत