धनञ्जय महाबाहो शिरो मे तात लम्बते। दीयतामुपधानं वै यद्युक्तमिह मन्यसे
समारोप्य महच्चापमभिवाद्य पितामहम्। नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर। प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह
तमब्रवीच्छान्तनवः शिरो मे तात लम्बते । `दीयतामुपधानं मे यद्युक्तमिह मन्यसे' उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन
वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे । त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम्
क्षत्रधर्मस्य वेत्ता च बुद्धिसत्वगुणान्वितः । फल्गुनोऽपि तथेत्युक्त्वा व्यवसायं परंजयः
गृह्यानुमन्त्र्य गाण्डीवं शरान्सन्नतपर्वणः । अनुमान्य महात्मानं भरतानां महारथम्
त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः । अभिप्राये तु विदिते धर्मात्मा स्वयसाचिना
अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् । उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम्
प्राह सर्वान्समुद्वीक्ष्य भरतान्भारतं प्रति। कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम्
शयनस्यानुरूपं मे पाण्डवोपहितं त्वया। यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं पुरा
एवमेव महाबाहो धर्मेषु परितिष्ठता। स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः । राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान्
पश्यध्वमुपधानं मे पाणडवेनाभिसन्धितम् । शयेयमस्यां शय्यायां यावदावर्तनं रवेः
ये तदा धारयिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः। दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः
नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा । रक्ष्येऽहं वै मम प्राणान्सुहृदः सुप्रियानिव
परिखाः खन्यतामत्र ममावसदने नृपाः । उपासिष्ये विवस्वन्तमेवं शरशताचितः । उपारमध्वं संग्रामाद्वैरमुत्सृज्य पार्थिवाः
उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः। सर्वोपकरणैर्युक्ताः कुशलैः साधुशिक्षिताः
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव । दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः
एवंगते मयेदानीं वैद्यैः कार्यमिहास्ति किम्। क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम्
नैष धर्मो महीपालाः शरतल्पगतस्य मे । एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव। वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः । स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः
उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः । सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः
उपगम्य महात्मानं शयानं शयने शुभे
तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिःप्रदक्षिणम्। विधाय रक्षां भीष्मस्य सर्व एव समन्ततः
वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः । निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः
निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् । भीष्मस्य पतनं दृष्ट्वा उपगम्य महाबलः
उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् । दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः
अवध्यो मानुषैरेव सत्यसन्धो महारथः । अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः