पाञ्चालान्हर्षयंश्चैव भीष्मः कुरुपितामहः । स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा
भीष्मो रथात्प्रपतितः संछिन्नो बहुभिः शरैः । हाहेति तुमुलः शब्दो भूतानां समपद्यत
सीमावृक्षे निपतिते कुरूणां समितिंजये । सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत्
भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् । कुरवः पर्यवर्तन्त पाण्डवाश्च विशांपते
खं तमःसंवृतमभूदासीद्भानुर्गतप्रभः । ररास पृथिवी चैव भीष्मे शान्तनवे हते
अयं ब्रह्मविदां श्रेष्ठो गतिर्ब्रह्मविदां सदा। इत्यभाषन्त भूतानि शयानं पुरुषर्षभम्
अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा । ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः
इति स्म शरतल्पस्थं भरतानां पितामहम् । ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः
हते शान्तनवे भीष्मे भरतानां पितामहे । न किंचित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष
विषण्णवदनाश्चासन्हतश्रीकाश्च भारत । अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः
पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः । सर्वे दध्युर्महाशङ्खान्हेमजालपरिष्कृतान्
हर्षात्तूर्यसहस्रेषु वाद्यमानेषु चानघ । अपश्याम महाराज भीमसेनं महाबलम्
विक्रीडमानं कौन्तेयं हर्षेण महता युतम्। निहत्य तरसा शत्रुं महाबलसमन्वितम्
संमोहश्चापि तुमुलः कुरूणामभवत्ततः । कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः
तथा निपातिते भीष्मे कौरवाणां पितामहे । हाहाभूतमभूत्सर्वं निर्मर्यादमवर्तत
दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव। उत्तमं जवमास्थाय द्रोणानीकभुपाद्रवत्
भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः। प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिहर्षयन्
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्। दुःशासनं महाराज किमयं वक्ष्यतीति च
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः । द्रोणस्तदाऽप्रियं श्रुत्वा मुमोह भरतर्षभ
स संज्ञामुपलभ्याशु भारद्वाजः प्रतापवान् । निवारयामास तदा स्वान्यनीकानि मारिष
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान्। रथैः शीघ्राश्वसंयुक्तैः समन्तात्पर्यवारयन्
निवृत्तेषु च सैन्येषु पारम्पर्येण सर्वशः । निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः
व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः । उपतस्थुर्महात्मानं प्रजापतिमिवामराः
ते तु भीष्मं समासाद्य शयानं भरतर्षभम् । अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् । अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा
स्वागतं वो महाभागाः स्वागतं वो महारथाः । तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः
अभिनन्द्य स तानेवं शिरसा लम्बताऽब्रवीत् । `परपार्श्वे तव सुतान्स्थितानुद्वीक्ष्य भारत।' शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम्
ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च । उपधानानि मुख्यानि नैच्छत्तानि पितामहः
अथाब्रवीन्नरव्याघ्रः प्रसहन्निव तान्नृपान् । नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः
ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् । धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम्