पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे । तस्मिन्हते महासत्वे भरतानां पितामहे
न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ । संमोहश्चैव तुमुलः करूणामभवत्तदा
कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः । विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः
दध्युश्चैव महाराज न युद्धे दधिरे मनः । ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान्
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि। `दुःखार्तास्ते ततो राजन्कुरूणां पतयोऽभवन् ।' अभाव सहसा राजन्कुरुराजस्य तर्कितः
हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः । कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना
पाणडवाश्च जयं लब्ध्वा परत्र च परां गतिम् । सर्वे दध्युर्महाशङ्खञ्शूराः परिघवाहवः
सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर । ततस्तूर्यसहस्रेषु नदत्सु स महाबलः
आस्फोटयामास भृशं भीमसेनो ननाद च। सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ
संन्यस्य विराः शस्त्राणि प्राध्यायन्त समन्ततः । प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्मोहं तथाऽपरे
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन्। ऋषयः पितरश्चैव प्रशशसुर्महाव्रतम्
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे । महोपनिषदं चैव योगमास्थाय विर्यवान्
जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत्
कथमासंस्तदा योधा हीना भीष्मेण सञ्जय । बलिना देवकल्पेन कौमारब्रह्मचारिणा
तदैव निहतान्मन्ये कुरूनन्यांश्च पाण्डवैः । न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजम्
ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति । अद्यैव निहतं श्रुत्वा पितरं मम दुर्मतेः
अश्मसारमयं नूनं हृदयं मम सञ्जय । श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते
यदन्यन्निहतेनाजौ भीष्मेण जयमिच्छता । चेष्टितं कुरुसिंहेन तन्मे कथय सुव्रत
पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे। न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन्
पाञ्चालान्हर्षयंश्चैव भीष्मः कुरुपितामहः । स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा
भीष्मो रथात्प्रपतितः संछिन्नो बहुभिः शरैः । हाहेति तुमुलः शब्दो भूतानां समपद्यत
सीमावृक्षे निपतिते कुरूणां समितिंजये । सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत्
भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् । कुरवः पर्यवर्तन्त पाण्डवाश्च विशांपते
खं तमःसंवृतमभूदासीद्भानुर्गतप्रभः । ररास पृथिवी चैव भीष्मे शान्तनवे हते
अयं ब्रह्मविदां श्रेष्ठो गतिर्ब्रह्मविदां सदा। इत्यभाषन्त भूतानि शयानं पुरुषर्षभम्
अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा । ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः
इति स्म शरतल्पस्थं भरतानां पितामहम् । ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः
हते शान्तनवे भीष्मे भरतानां पितामहे । न किंचित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष
विषण्णवदनाश्चासन्हतश्रीकाश्च भारत । अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः