पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना। धृष्टद्युम्नसुखैः सर्वैः पाञ्चालैश्च समन्ततःक
भिद्यमानाः शरैस्तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः। द्रोणद्रौणिकृतैः सार्धं सर्वे शल्यशलादयः। तावकाः समरे राजञ्जहुर्भीष्मं महामृधे
सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
साल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह। द्वादशैते जनपदाः शरार्ता व्रणपीडिताः। संग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना
ततस्तमेकं बहवः परिवार्य समन्ततः । परिकाल्य कुरून्सर्वाञ्शरर्षैरवाकिरन्
निपातयत गृह्णीत युध्यध्वमवकृन्तत। इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति
निहत्य समरे राजञ्शतशोऽथ सहस्रशः । न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्
एवंभूतस्तव पिता शरैर्विशकलीकृतः। शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात्
किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् । हाहेति दिवि देवानां पार्थिवानां च भारत
पतमाने रथाद्भीष्मे बभूव सुमहास्वनः । संपतन्तमभिप्रेक्ष्य महात्मानं पितामहम्
सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः । स पपात महाबाहुर्वसुधामनुनादयन्
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् । धरणीं न स पस्पर्श शरसङ्घैः समावृतः
शलतल्पे महेष्वासं शयानं पुरुषर्षभम्। रथात्प्रपतितं चैनं दिव्यो भावः समाविशत्
अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी । पतन्स ददृशे चापि दक्षिणेन दिवाकरम्
संज्ञां चोपालभद्वीरः कालं संचिन्त्य भारत । अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः । कालकर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्। धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले
उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया। तस्य तन्मतमाज्ञाय गह्गा हिमवतः सुताः
महर्षीन्हंसरूपेण प्रेषयामास तत्र वै। ततस्तं प्रति ते हंसास्त्वरिता मानसौकसः
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम्। यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः
ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः । अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम्
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्। गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम्
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः । भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने
इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम्। संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत
तानब्रवीच्छान्तनवो नाहं गन्ता कथंचन । दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम्
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् । उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया। प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम
तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने। यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना
छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे। धारयिष्ये ततः प्राणानुत्सर्गे नियते सति
इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः । एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि