तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् । निमेषार्धेन कौन्तेय आत्तमात्तं महारणे
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ। ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। सोऽतिविद्धो महेष्वासो दुःशासनमभाषत
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः । शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे
न चैष समरे शक्यो जेतुं वज्रभृता अपि। न चापि सहिता वीरा देवदानवराक्षसाः
मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः । `ऋतेऽर्जुनं सुसंक्रुद्धमेतत्सत्यं ब्रवीमि ते
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः। शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे
ततो दुःशासनं भीष्मः स्मयमान इवाब्रवीत् । अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना
वज्राशनिसमस्पर्शाः सुपुङ्खाः सुप्रतेजनाः । सुमुक्ता अव्यवच्छिन्ना नेमे बाणाःशिखण्डिनः
निकृन्तमाना मर्माणि दृढावरणभेदिनः । सुसला इव मे ध्नन्ति नेमे बाणः शिखण्डिनः
वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः । मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः
नाशयन्तीव मे प्राणान्यमदूता इवागताः । गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः
भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः। समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः । कृन्तन्ति मम गात्राणि माघमां सेगवा इव
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाःक । वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम्
इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम् । शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्। पश्यतां कुरुवीराणां सर्वेषां तत्र भारत
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् । खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा
तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा । रथादनवरूढस्य तदद्भुतमिवाभवत्
ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत्। अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः। पट्टसैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः । सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा
तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः। तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह। दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे
आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव । सैन्यानां युध्यमानानां निघ्नतामितरेतरम्
असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा। समं च विषमं चैव न प्राज्ञायत किंचन
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि । अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनुर्धरः। मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम्
तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम्। द्रावयामासुरिषुभिः सर्वान्भीष्मपदानुगान्
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात्। पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा