संग्रमे भरतश्रेष्ठ देवानां दानवैरिव । शिखण्डी तु रणे श्रेष्ठो रक्ष्ममाणः किरीटिना
अविध्यद्दशभिर्भीषअमं छिन्नधन्वानमाहवे। सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्। तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फल्गुनः
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः । धनुश्चिच्छेद भीष्मस्य सव्यसाची परंतपः
स च्छिन्नधन्वा संक्रुद्धाः सृक्किणी परिसंलिहन् । शक्तिं जग्राह तरसा गिरीणामपि दारणीम्
तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति । तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव
समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः । तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः
संक्रुद्धो भरतश्रेष्ठ भीष्मवाहुप्रवेरिताम् । सा पपात तथा च्छिन्ना संक्रुद्धेन किरीटिना
मेघबृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा । छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः
अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः। शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्
यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः । `अजय्यश्चैव सर्वेषां लोकानामिति मे मतिः ।' कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान्
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः। पित्रा तुष्टेन मे पूर्वं यदा कालीमुदवहम्
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा । तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः । ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन्
यत्ते व्यवसितं तात तदस्माकमपि प्रियम् । तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय
अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः । अनुलोमः सुगन्धी च पृषतैश्च समन्वितः
देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः। पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष
न च ताः शुश्रुवे कश्चित्तेषां संवदतां गिरः। ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा
संभ्रमश्च महानासीत्रिदशानां विशांपते । पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा
इति देवगणानां च वाक्यं श्रुत्वा महातपाः। ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत
भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः । शिखण्डी तु महाराज भरतानां पितामहम्
आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः । स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः
नाकम्पत महाराज क्षितिकम्पे यथाऽचलः । ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः
सर्वगात्रेषु संक्रुद्धस्तथा मर्मस्वताडयत् । एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः
तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः । तैश्च मुक्ताञ्छरान्भीष्मो युधि सत्यपराक्रमः
निवारयामास शरैः समं सन्नतपर्वभिः । शिखण्डी तु रणे बाणान्यान्मुमोच महारथः
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलासिताः । ततः किरीटी संक्रुद्धो भीष्ममेवाभ्यवर्तत
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्। अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे
सारथिं विशिखैश्चास्य दशभिः समकम्पयत् । सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम्