ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः । सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्। सरव्रतैः शरव्रातान्बहुधा विदुधाव तान्
ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् । पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
यमौ च चेकितानश्च केकयाः पञ्च चैव ह । सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् । विराटश्च महाराज पाण्डवेया महाबलाः
एते चान्ये च बहवः पीडिता भीष्मसायकैः । समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्। भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् । भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना । अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः
ददृशुः समरे भीष्मं समुद्यतमहायुधम् । ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः
बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः । विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् । चक्रे शरविघातं च क्रीडन्निव पितामहः
नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः । स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिने
जघान द्रुपदानीके रथान्सप्त महारथः । ततः किलकिलाशब्दः क्षणेन समभूत्तदा
मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् । ते नराश्वरथव्रातैर्मार्गणैश्च परंतप
तमेकं छादयामासुर्मेघा इव दिवाकरम् । भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून्
ततस्तस्य च तेषां च युद्धे देवासुरोपमे । किरीटी भीष्ममानर्च्छ पुरस्कृत्य शिखण्डिनम्
एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् । विव्यधुः समरे भीष्मं परिवार्य समन्ततः
शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः । मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः । नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः
अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः । स विशीर्णतनुत्रामाः पीडितो बहुभिस्तदा
न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु । संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः
नेमिनिर्ह्रादसंतापो महास्त्रोदयपावकः । चित्रचापमहाज्वालो वीरक्षयमहेन्धनः
युगान्तागनिसमप्रख्यः परेषां समपद्यत । निवृत्य रथसङ्घानामन्तरेण विनिःसृतः
दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन् । ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च
पाण्डवानीकिनीमध्यमाससाद विशांपते। ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम्
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् । भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः
षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तकैः शरैः । तस्य ते निशितान्बाणात्सन्निवार्य महारथाः
दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा । शिखण्डी तु महाबाणान्यान्मुमोच महारथः