विराटस्य प्रियो भ्राता शतानीको निपातितः। शतानीकं च समरे हत्वा भीष्मः प्रतापवान्
सहस्राणि महाराज राज्ञां भल्लैरपातयत्। उद्विग्नाः समरे योधा विक्रोशन्ति धनञ्जयम्
ये च केचन पार्थानामभियाता धनञ्जयम् । राजानो भीष्ममासाद्य गतास्ते यमसादनम्
किरन्दश दिशो भीष्मः शरजालैः समन्ततः । अतीत्य सेनां पार्थानामवतस्थे चमूमुखे
स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि। सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः
न चैनं पार्थिवाः केचिच्छक्ता राजन्निरीक्षितुम् । मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि
यथा दैत्यचमूं शक्रस्तापयामास संयुगे । तथा भीष्मः पाण्डवेयांस्तापयामास भारत
तथा चैनं पराक्रान्तमालोक्य मधुसूदनः। उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम्
एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः । सन्निहत्य बलादेनं विजयस्ते भविष्यति
बलात्संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः । न हि भीष्मशरानन्यः सोढुमुत्सहते विभो
ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः । सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः
स चापि कुरुमुख्यानामृषभः पाण्डवेरितान्। सरव्रतैः शरव्रातान्बहुधा विदुधाव तान्
ततः पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् । पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
यमौ च चेकितानश्च केकयाः पञ्च चैव ह । सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः
द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् । विराटश्च महाराज पाण्डवेया महाबलाः
एते चान्ये च बहवः पीडिता भीष्मसायकैः । समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे
ततः शिखण्डी वेगेन प्रगृह्य परमायुधम्। भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना
ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् । भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः । विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ
दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना । अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः
ददृशुः समरे भीष्मं समुद्यतमहायुधम् । ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः
बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः । विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः
पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् । चक्रे शरविघातं च क्रीडन्निव पितामहः
नाभिसंधत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः । स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिने
जघान द्रुपदानीके रथान्सप्त महारथः । ततः किलकिलाशब्दः क्षणेन समभूत्तदा
मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् । ते नराश्वरथव्रातैर्मार्गणैश्च परंतप
तमेकं छादयामासुर्मेघा इव दिवाकरम् । भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून्
ततस्तस्य च तेषां च युद्धे देवासुरोपमे । किरीटी भीष्ममानर्च्छ पुरस्कृत्य शिखण्डिनम्
एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् । विव्यधुः समरे भीष्मं परिवार्य समन्ततः
शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः । मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः