वधः पशुवराहाणां तथैव मृगपक्षिणाम्। शान्तनौ पृथिवीपाले नावर्तत तथा नृप
ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्। समं शशास भूतानि कामरागविवर्जितः
चकोरनेत्रस्ताम्रास्यः सिंहर्षभगतिर्युवा। गुणैरनुपमैर्युक्तः समस्तैराभिगामिकैः। गम्भीरः सत्वसंपन्नः पूर्णचन्द्रनिभाननः
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः। न चाधर्मेण केषांचित्प्राणिनामभवद्वधः
असुखानामनाथानां तिर्यग्योनिषु वर्तताम्। स एव राजा सर्वेषां भूतानामभवत्पिता
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति। श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः
यज्ञार्थं पशवः सृष्टाः संतानार्थं च मैथुनम्।' स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथाऽपराः। रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः। गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च। महाबलो महासत्वो महावीर्यो महारथः
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्। भागीरथीमल्पजलां शान्तनुर्दृष्टवान्नृपः
तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः। स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा
ततो निमित्तमन्विच्छन्ददर्श स महामनाः। कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम्
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम्। कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्
तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके। अभवद्विस्मितो राजा दृष्ट्वा कर्मातिमानुषम्
जातमात्रं पुरा दृष्टं तं पुत्रं शान्तनुस्तदा। नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम्
स तु तं पितरं दृष्ट्वा मोहयामास मायया। संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत
तदद्बुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः। सङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्। गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम्
अलङ्कृतामाभरणैर्विरजोम्बरधारिणीम्। दृष्टपूर्वामपि स तां नाभ्यजानात्स शान्तनुः
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः। स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः
गृहाणेमं महाराज मया संवर्धितं सुतम्। आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो
वेदानधिजगे साङ्गान्वसिष्ठादेष वीर्यवान्। कृतास्त्रः परमेष्वासो देवराजसमो युधि
सुराणां संमतो नित्यमसुराणां च भारत। उशा वेद यच्छास्त्रमयं तद्वेद सर्वशः
तथैवाङ्गिरसः पुत्रः सुरसुरनमस्कृतः। यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम्
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि। ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान्
यदस्त्रं वेद राभश्च तदेतस्मिन्प्रतिष्ठितम्। महेष्वासमिमं राजन्राजधर्मार्थकोविदम्
इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत।' तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः
भ्राजमानं यथाऽदित्यमाययौ स्वपुरं प्रति। पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम्
सर्वकामसमृद्धार्थं मेने सोत्मानमात्मना। पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम्
गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत्। पौरवाञ्शान्तनोः पुत्रः पितरं च महायशाः