सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः । अभ्यद्रवन्त गोङ्गेयं शस्त्रवृष्ट्या समन्ततः
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् । अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम्
तं शिखण्डी रणे यान्तमभ्यद्रवत दंशितः । ततः समाहरद्भीष्मस्तदस्त्रं पावकोपमम्
एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः। निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम्
असंव्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु । ब्रह्मलोकपराः सर्वे समपद्यन्त भारत
च ह्यनीकमनीकेषु समसञ्जत संकले । रथा न रथिभिः सार्धं पादाता न पदातिभिः
अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः । उन्मत्तवन्महाराज युध्यन्ते तत्र भारत
महान्व्यतिकरो रौद्रः सेनयोः समपद्यत । नरनागगणेष्वेवं विकीर्णेषु च सर्वशः
क्षये तस्मिन्महारौद्रे निर्विशेषमजायत । ततः शल्यः कृपश्चैव चित्रसेनश्च भारत
दुःशासनो विकर्णश्च रथानास्थाय भास्वरान् । पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन्
सा वध्यमाना समरे पाण्डुसेना महात्मभिः । त्रातारं नाध्यगच्छद्वै मञ्जमानेव नौर्जंले
यथा हि शैशिरः कालो गवां मर्माणि कृन्तति। तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति
तथैव तव सैन्यस्य पार्थेन च महात्मना। नवमेघप्रतीकाशाः पातिता बहुधा गजाः
मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः । इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः
पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः । आनद्धाभरणैः कायैर्निहतानां महात्मनाम्
छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः । तस्मिन्नेव महाराज महावीरवरक्षये
भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये । ते पराक्रान्तमालोक्य राजन्युधि पितामहम्
अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः । इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम्
पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये । पाण्डवापि महाराज स्मरन्तो विविधान्बहून्
क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप । भयं त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः
तावकांस्तव पुत्रांश्च योधयन्ति प्रहृष्टवत्। सेनापतिस्तु समरे प्राह सेनां महारथः
अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह । सेनापतिवचः श्रुत्वा सोमकाः सृञ्जयाश्च ते
अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः । वध्यमानस्ततो राजन्पिता शान्तनवस्तव
अमर्षवशमापन्नो योधयामास सृञ्जयान्। तस्य कीर्तिमतस्तात पुरा रामेण धीमता
संप्रदत्ताऽस्त्रशिक्षा वै परानीकविनाशनी । स तां विद्यामधिष्ठाय कुर्वन्तपरबलक्षयम्
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः । भीष्मो दशसहस्राणि जघान परवीरहा
तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ । एको भीष्मो हि मत्स्येषु पाञ्चालेषु च संयुगे
गजाश्वममितं हत्वा हत्वा सप्त महारथान् । हत्वा पञ्चसहस्राणि रथानां प्रतिपामहः
नराणां च महायुद्धे सहस्राणि चतुर्दश । दन्तिनां च सहस्राणि हयानामयुतं पुनः
शिक्षबलेन न्यहनत्पिता तव विशांपते । ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम्