नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् । सध्वजा रथिनः पेतुर्हयारोहा हयैः सह
सगजाश्च गजारोहाः किरीटिशरताडिताः । ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुंधरा
विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत । अथ पार्थो महाराज द्रावयित्वा वरूथिनीम्
दुःशासनाय सुबहून्प्रेषयामास सायकान् । ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः । हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत्
विविंशतिं च विंशत्या विरथीकृतवान्प्रभुः । आजघान भृशं चैव पञ्चभिर्नतपर्वभिः
कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः । चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः
एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष । दुःशासनो विकर्णश्च तथैव च विविंशतिः
संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना । पूर्वाह्णे भरतश्रेष्ठ पराजित्य महारथान्
प्रजज्वाल रणे पार्थो विधूम इव पावकः । तथैव शरवर्षेण भास्करो रश्मिवानिव
अन्यानपि महाराज तापयामास पार्थिवान् । पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान्
प्रावर्तयत संग्रामे शोणितोदां महानदीम् । मध्येन कुरुसैन्यानां पाण्डवानां च भारत
तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये । भीष्मं प्रति पराक्रान्ताः पाण्डवाः सह सृञ्जयैः
ते पराक्रान्तमालोक्य युधि राजन्पितामहम् । न न्यवर्तन्त ते पुत्रा ब्रह्मलोकपुरस्कृताः
इच्छन्तो निधनं युद्धे स्वर्गलोकपरायणाः । पाण्डवानभ्यवर्तन्त तावका युद्धदुर्मदाः
पाण्डवाश्च महाराज स्मरन्तो विविधान्बहून् । क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप
भयं त्यक्त्वा रणे शूराः स्वर्गलोकपुरस्कृताः। तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत्
गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः । रथाश्च निहता नागैर्हयाश्चैव पदातिभिः
अन्तरा च्छिद्यमानानि शरीराणि शिरांसि च । निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम्
छन्नमायोधनं राजन्कुण्डलाङ्गदधारिभिः। पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः
रथनेमिनिकृत्तैश्च गजैश्चैवावपोथितैः । पादातश्चाप्यधावन्त साश्वाश्च हययोधिनः
गजाश्च रथयोधाश्च परिपेतुः समन्ततः । विकीर्णाश्च रथा भूमौ भग्रचक्रयुगध्वजाः
तद्गजाश्वरथौघानां रुधिरेण समुक्षितम । छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम्
श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह । प्रणेर्दुर्भक्ष्यमासाद्य विकृताश्च सगद्विजाः
ववुर्बहुविधश्चैव दिक्षु सर्वासु मारुताः। दृश्यमानेषु रक्षःसु भूतेषु च नदत्सु च
काञ्चनानि च दामानि पताकाश्च महाधनाः । धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः
श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः । विकीर्णाः समदृश्यन्त शतशोऽथ सहस्रशः
सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः। क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः
समन्ततश्च दृश्यन्ते पतिता धरणीतले । `इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः।' पेतुरार्तस्वरं कृत्वा तत्रतत्र महागजाः
सेनापतिस्तु समरे प्राह सेनां महारथः । अभ्यद्रवत गाङ्गेयं सैनिकाः किं कृतेन वः