ऋते महेन्द्रतनयाच्छ्वेताश्वात्कृष्णसारथेः । स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः । विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः
पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः । अर्जुनस्तु रणे राजन्योधयन्संव्यराजत
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् । शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः
न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर । स्मय्रमानस्तु गाङ्गेयस्तान्बाणाञ्जगृहे तदा
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति । तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे। भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनां
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष । अभिद्रवत संग्रामे फल्गुनं सर्वतो रणे
भीष्मो वः समरे सर्वान्पायिष्यति धर्मवित्। तद्भयं सुमहत्त्यक्त्वा पाण्डवान्प्रति युध्यत
एष तालेन महता भीष्मस्तिष्ठति पालयन्। सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च
देवा अपि समुद्युक्ता नालं भीष्मं समासितुम् । किमु पार्था महात्मानं मर्त्यभूता महाबलाः
तस्माद्द्रवत मा योधाः फल्गुनं प्राप्य संयुगे । अहमद्य रणे यत्तो योधयिष्यामि पाण्डवम्
सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपैः । तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः
अर्जुनं प्रति संयत्ता बलवन्तो महाबलाः । ते विदेहाः कलिङ्गाश्च दासेरकगणाश्च ह
अभिपेतुर्निषादाश्च सौवीराश्च महारणे । बाह्लीका दरदाश्चैव प्रतीच्योदीच्यमालवाः
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः । साल्वः शकास्त्रिगर्ताश्च अम्बष्ठाः केकयौः सह
अभिपेतू रणे पार्थं पतङ्गा इव पावकम् । स तान्सर्वान्सहानीकान्महाराज महारथान्
दिव्यान्यस्त्राणि संचिन्त्य प्रसंधाय धनञ्जयः । स तैरस्त्रैर्महावेगैर्ददाह सुमहाबलः
शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः । तस्य बाणसहस्राणि सृजतो दृढधन्विनः
दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत। ते शरार्ता महाराज विप्रकीर्णमहाध्वजाः
नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् । सध्वजा रथिनः पेतुर्हयारोहा हयैः सह
सगजाश्च गजारोहाः किरीटिशरताडिताः । ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुंधरा
विद्रुतं दिक्षु सर्वासु शरैर्बलमदृश्यत । अथ पार्थो महाराज द्रावयित्वा वरूथिनीम्
दुःशासनाय सुबहून्प्रेषयामास सायकान् । ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः
धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः । हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत्
विविंशतिं च विंशत्या विरथीकृतवान्प्रभुः । आजघान भृशं चैव पञ्चभिर्नतपर्वभिः
कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः । चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः
एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष । दुःशासनो विकर्णश्च तथैव च विविंशतिः
संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना । पूर्वाह्णे भरतश्रेष्ठ पराजित्य महारथान्
प्रजज्वाल रणे पार्थो विधूम इव पावकः । तथैव शरवर्षेण भास्करो रश्मिवानिव