नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् । न कश्चिदेनं समरे प्रत्युद्याति महारथः
ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् । शिखण्डिनं च समरे पाञ्चाल्यममितौजसम्
शिखण्डी तु रणे भीष्ममासाद्य पुरुषर्षभम् । दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे
शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा । संप्रेक्षत कटाक्षेण निर्दहन्निव भारत
स्त्रीत्वं तस्य स्मरन्राजन्सर्वलोकस्य पश्यतः। नाजघान रणे भीष्मः स च तन्नावबुद्धवान्
अर्जुनस्तु महाराज शिखण्डिनमभाषत । अभित्वरस्वास्य वधे शिखण्डिन्रथसत्तम
किं ते विवक्षया वीर जहि भीष्मं महारथम् । न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले
यः शक्तः समरे भीष्मं योधयेत पितामहम् । ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत्
अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव । अर्जुनं समरे क्रुद्धं वारयामास सायकैः
तथैव च चमूं सर्वां पाण्डवानां महारथः । अप्रैषीत्स शरैस्तीक्ष्णैः परलोकाय मारिष
तथैव पाण्डवा राजन्सैन्येन महता वृताः । भीष्मं संछादयामासुर्मेघा इव दिवाकरम्
स समन्तात्परिवृतो भीष्मो हि भरतर्षभ । निर्ददाह रणे शूरान्वने वह्निरिव ज्वलन्
तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् । अयोधयच्च यत्पार्थं जुगोप च पितामहम्
कर्मणा तेन समरे तव पुत्रस्य धन्विनः । दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः
यदेकः समरे पार्थान्सानुगान्समयोधयत् । न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम्
दुःशासनेन समरे रथिनो विरथीकृताः । सादिनश्च महेष्वासा हस्तिनश्च महाबलाः
विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्वसुधातले । शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः
यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम् । तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन्
तं भारतमहामात्रं पाण्डवानां महारथः । जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथंचन
ऋते महेन्द्रतनयाच्छ्वेताश्वात्कृष्णसारथेः । स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः
भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः । विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः
पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः । अर्जुनस्तु रणे राजन्योधयन्संव्यराजत
शिखण्डी तु रणे राजन्विव्याधैव पितामहम् । शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः
न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर । स्मय्रमानस्तु गाङ्गेयस्तान्बाणाञ्जगृहे तदा
उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति । तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः
तं क्षत्रिया महाराज ददृशुर्घोरमाहवे। भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनां
ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष । अभिद्रवत संग्रामे फल्गुनं सर्वतो रणे
भीष्मो वः समरे सर्वान्पायिष्यति धर्मवित्। तद्भयं सुमहत्त्यक्त्वा पाण्डवान्प्रति युध्यत
एष तालेन महता भीष्मस्तिष्ठति पालयन्। सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च