ततः क्रुद्धो महाराज पार्षतः परवीरहा । द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे
तामापतन्तीं सहसा हेमपट्टविभूषिताम्। शरैः पञ्चाशता द्रोणो वारयामास संयुगे
सा छिन्ना बहुधा राजन्द्रोगचापच्युतैः शरैः । चूर्णीकृता विशीर्यन्ती पपात वसुधातले
गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः । द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम्
तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत। पार्षतं च महेष्वासं पीजयामास संयुगे
एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत्। भीष्मं प्रति महाराज घोररूपं भयानकम्
अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः । अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम्
प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान् । त्रिधा भिन्नेन नागेन मदान्धेन महाबलः
तमापतन्तं सहसा महेन्द्रगजसन्निभम् । परं यत्नं समस्थाय बीभत्सुः प्रत्यपद्यत
ततो गजगतो राजा भगदत्तः प्रतापवान् । अर्जुनं शरवर्षेण वारयामास संयुगे
अर्जुनस्तु ततो नागमायान्तं रजतोपमैः । विमलैरायसैस्तीक्ष्णैरविध्यत महारणे
शिखण्डिनं च कौन्तेयो याहियाहीत्यचोदयत्। भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत्
प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज। प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति
ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम्। शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत
ततस्ते तावकाः शूराः पाण्डवं रभसं युधि । समभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत्
नानाविधान्यनीकानि पुत्राणां ते जनाधिप । अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः
शिखण्डी तु समासाद्य भरतानां पितामहम्। इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत्
रथाग्न्यगारश्चापार्चिरशिशक्तिगदेन्धनः । शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत्
यथाऽग्निः सुमहानिद्धः कक्षे चरति सानिलः। तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन्
सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् । न्यवारयत तत्सैन्यं पाण्डवस्य महारथः
सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः । नादयन्स दिशो भीष्मः प्रदिशश्च महाहवे
पातयन्रथिनो राजन्हयांश्च सह सादिभिः । मुण्डतालवनानीव चकार स रथव्रजान्
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे । चकार समरे भीष्मः सर्वशस्त्रभृतां वरः
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः
अघोमा न्यपतन्बाणाः पितुस्ते मनुजेश्वर । नासञ्जन्त शरीरेषु भीष्मचापच्युताः शराः
निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः । वातायमानानद्राक्षं ध्रियमाणान्विशांपते
चेदिकाशिकरूशानां सहस्राणि चतुर्दश । महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः
अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः । संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः
जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम्। न तत्रासीद्रणे राजन्सोमकानां महारथः
यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे । तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति