आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते । तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ । वासितासंगमे यत्तौ सिंहाविव महावने
मण्डलानि विचित्राणि गतप्रत्यागतानि च। चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम्
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना । ताडयामास संक्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत्
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् । आजघान शिताग्रेण जत्रुदेशे महासिना
तावन्योन्यं महाराज समासाद्य महाहवे । अन्योन्यवेगाभिहतौ निपेततुररिंदमौ
ततः स्वरथमारोप्य पौरवं तनयस्तव । जयत्सेनो रथेनाजावपोवाह रणाजिरात्
धृष्टकेतु तु समरे माद्रीपुत्रः प्रतापवान् । अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी
चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः । पुनर्विव्याध तं षष्ट्या पुनश्च नवभि शरैः
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशांपते । दशमिर्दशभिश्चैव विव्याध निशितैः शरैः
चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः । आजघान रमे क्रुद्धः स च तं प्रत्यविध्यत
भीष्मस्य समरे राजन्यशो मानं च वर्धयन् । सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत्
पार्थहेतोः पराक्रान्तो भीष्मस्य निधनं प्रति। आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः
पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः । सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः
नाकम्पयत संग्रामे विव्याध च पुनः शरैः । कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः
आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः । सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः
फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः । तयोर्युद्धं समभवद्भीष्महेतोः परंतप
संरब्धयोर्महाराज समरे चित्रयोधिनोः । यथा देवासुरे युद्धे बलिवासवयोरभूत्
भीमसेनो गजानीकं योधयन्बह्वशोभत । यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान्
ते वध्यमाना भीमेन मात्गा गिरिसन्निभाः । निपेतुरुर्व्यां सहिता नादयन्तो वसुधराम्
गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः । विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः
युधिष्ठिरो महेष्वासो मद्रराजानमाहवे । महत्या सेनया गुप्तं पीडयामास संगतम्
मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् । पीडयामास संरब्धो भीष्महेतोः पराक्रमी
विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः । नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत्
विराटश्च महाराज सैन्धवं वाहिनीपतिः । त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे
चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ । रेजतुश्चित्ररूपौ तौ संग्रामे मत्स्यसैन्धवौ
द्रोणः पाञ्चालपुत्रेण समागम्य महारणे । महासमुदयं चक्रे शरैः सन्नतपर्वभिः
ततो द्रोणो महाराज पार्षतस्य महद्धनुः । छित्त्वा पञ्चाशतेषूंश्च पार्षतं प्रति सृष्टवान्
सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा। द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान्
ताञ्छराञ्छरघातेन चिच्छेद स महारथः । द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान्