तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह। भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा
तयोः समागमो घोरो बभूव युधि भारत। अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे
अभिमन्युर्महाराज तव पुत्रमयोधयत्। महत्या सेनया युक्तं भीष्महेतोः पराक्रमी
दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः। आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्। प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति
तामापतन्तीं सहसा घोररूपां विशांपते । द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः । दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे । दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम्
तद्युद्धमभवद्धोरं चित्ररूपं च भारत। ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम्
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च। युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ
सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः । आजघानोरसि क्रुद्धो नाराचेन परंतपः
शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत। अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः
अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः । त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत्
सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्यकिः । द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः
पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे । बहुधा दारयांचक्रे महेष्वासं महारथः
तथैव पौरवं युद्धे धृष्टकेतुर्महारथः। त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः
पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः । ननाद बलवन्नादं विव्याध च शितैः शरैः
सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः । आजघान महाराज त्रिसप्तत्या शिलीमुखैः
तौ तु तत्र महेष्वासौ महामात्रौ महारथौ । महता शरवर्षेण परस्परमवर्षताम्
अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत। विरथावसियुद्धाय समीयतुरमर्षणौ
आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते । तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ
प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ । वासितासंगमे यत्तौ सिंहाविव महावने
मण्डलानि विचित्राणि गतप्रत्यागतानि च। चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम्
पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना । ताडयामास संक्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत्
चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् । आजघान शिताग्रेण जत्रुदेशे महासिना
तावन्योन्यं महाराज समासाद्य महाहवे । अन्योन्यवेगाभिहतौ निपेततुररिंदमौ
ततः स्वरथमारोप्य पौरवं तनयस्तव । जयत्सेनो रथेनाजावपोवाह रणाजिरात्
धृष्टकेतु तु समरे माद्रीपुत्रः प्रतापवान् । अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी
चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः । पुनर्विव्याध तं षष्ट्या पुनश्च नवभि शरैः
सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशांपते । दशमिर्दशभिश्चैव विव्याध निशितैः शरैः