शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् । भीष्मस्य पातने यत्नं परमं ते समास्थिताः
ततस्त्व सुतादिष्टा नानाजनपदेश्वराः। द्रोणेन सहपुत्रेण सहसेना महाबलाः
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः । भीष्मं समरमध्यस्थं पालयांचक्रिरे तदा
ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे
चेदिभिस्तु सपाञ्चालैः सहितो वानरध्वजः । ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम्
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् । अभिमन्युः सहामात्यं दुर्योधमयोधयत्
विराटस्तु सहानीकः सहसेनं जयद्रथम् । वृद्धक्षत्रस्य दायादमाससाद परंतप
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः । भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत्
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् । द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः
कर्णिकारध्वजं चैव सिंहकैतुररिंदमः । प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् । राजभिः समरे पार्थमभिपेतुर्जिघांसवः
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे । संप्रधावत्स्वनीकेषु मेदिनी समकम्पत
तान्यनीकान्यनीकेषु समयुध्यन्त भारत । तावकानां परेषां च दृष्ट्वा शान्तनवं रणे
ततस्तेषां प्रयततामन्योन्यमभिधावताम् । प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत
शङ्खदुन्दुभिघोषश्च वारणानां च बृंहितैः । सिंहनादश्च सैन्यानां दारुणः समपद्यत
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा । हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत
रजोमेघास्तु संजज्ञुः शस्त्रविद्युद्भिरावृताः । धनुषां चापि निर्घोषो दारुणः समपद्यत
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः । रथघोषश्च संजज्ञे सेनयोरुभयोरपि
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् । निष्प्रकाशमिवाकाशं सेनयोः समपद्यत
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे । कुञ्जरान्कुञ्जरा जघ्नुः पादातांश्च पदातयः
तत्रासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह। भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा
तयोः समागमो घोरो बभूव युधि भारत। अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे
अभिमन्युर्महाराज तव पुत्रमयोधयत्। महत्या सेनया युक्तं भीष्महेतोः पराक्रमी
दुर्योधनो रणे कार्षिं नवभिर्नतपर्वभिः। आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः
तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्जिह्वामिवायसीम्। प्रेषयामास संक्रुद्धो दुर्योधनरथं प्रति
तामापतन्तीं सहसा घोररूपां विशांपते । द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः
तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः । दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे । दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम्
तद्युद्धमभवद्धोरं चित्ररूपं च भारत। ईक्षितृप्रीतितजननं सर्वपार्थिवपूजितम्
भीष्मस्य निधनार्थाय पार्थस्य विजयाय च। युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ