चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव । अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत्
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद । शृणुष्व वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः
निर्विष्णोऽस्मि भृशं तात देहेनानेन भारत । घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे
तस्मात्पार्थं पुरोधाय पाञ्चालान्सृज्जयांस्तथा । मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम्
तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः । भीष्मं प्रति ययौ राजा संग्रामे सह सृञ्जयैः
धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः । श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम्
अभिद्रवध्यं युद्ध्यध्वं भीष्मं जयत संयुगे । रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना
अयं चापि महेष्वासः पार्षतो वाहिनीपतिः । भीमसेनश्च समरे पालयिष्यति वो ध्रुवम्
मा वो भीष्माद्भयं किंचिदस्त्वद्य युधि सृञ्जयाः। ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम्
ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः। ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्च्छिताः
शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् । भीष्मस्य पातने यत्नं परमं ते समास्थिताः
ततस्त्व सुतादिष्टा नानाजनपदेश्वराः। द्रोणेन सहपुत्रेण सहसेना महाबलाः
दुःशासनश्च बलवान्सह सर्वैः सहोदरैः । भीष्मं समरमध्यस्थं पालयांचक्रिरे तदा
ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम्। शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे
चेदिभिस्तु सपाञ्चालैः सहितो वानरध्वजः । ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम्
द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् । अभिमन्युः सहामात्यं दुर्योधमयोधयत्
विराटस्तु सहानीकः सहसेनं जयद्रथम् । वृद्धक्षत्रस्य दायादमाससाद परंतप
मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः । भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत्
अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् । द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः
कर्णिकारध्वजं चैव सिंहकैतुररिंदमः । प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः
शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् । राजभिः समरे पार्थमभिपेतुर्जिघांसवः
तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे । संप्रधावत्स्वनीकेषु मेदिनी समकम्पत
तान्यनीकान्यनीकेषु समयुध्यन्त भारत । तावकानां परेषां च दृष्ट्वा शान्तनवं रणे
ततस्तेषां प्रयततामन्योन्यमभिधावताम् । प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत
शङ्खदुन्दुभिघोषश्च वारणानां च बृंहितैः । सिंहनादश्च सैन्यानां दारुणः समपद्यत
सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा । हाराङ्गदकिरीटेषु निष्प्रभा समपद्यत
रजोमेघास्तु संजज्ञुः शस्त्रविद्युद्भिरावृताः । धनुषां चापि निर्घोषो दारुणः समपद्यत
बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः । रथघोषश्च संजज्ञे सेनयोरुभयोरपि
प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् । निष्प्रकाशमिवाकाशं सेनयोः समपद्यत
अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे । कुञ्जरान्कुञ्जरा जघ्नुः पादातांश्च पदातयः