त्रिभिः शरैर्महाराज वासुदेवं कच पञ्चभिः । भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत्
ततो द्रोणो महाराज मागधश्च महारथः । दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः । कौरव्यस्य महासेनां जघ्नुतुः सुमहारथौ
जयत्सेनस्तु समरे भीमं भीमायुधं युधि। विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ
तं भीमो दशभिर्विद्धा पुनर्वीव्याध पञ्चभिः । सारथिं चास्य भल्लेन रथनीडादपातयत्
उद्भ्रांतैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः । मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः
द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः । विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः
तं भीमः समरश्लाघी गुरुं पितृसमं रणे। विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः। व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः
ततो भीष्मश्च राज च कौसल्यश्च बृहद्बलः । समवर्तन्त संक्रुद्धा भीमसेनधनञ्जयौ
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम्
शिखण्डी तु समासाद्य भरतानां पितामहम् । अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात्
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् । अयोधयन्रणे भीष्मं सहिताः सर्वसृञ्जयैः
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् । शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे
ततः प्रववृते युद्धं कौरवाणां भयावहम्। तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति
तावकानां जये भीष्मो ग्लह आसीद्विशांपते । तत्र हि द्यूतमासक्तं विजयायेतराय वा
धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत्। अभ्यद्रवत गाङ्गेयं मा भैष्ट रथसत्तमाः
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी । भीष्मं समभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् । आपतन्तीं महाराज वेलामिव महोदधिः
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय। अयुध्यत महावीर्यः पाण्डवैः सह सृज्जयैः
कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्। आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः
कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत। यथा च तदभूद्युद्धं तत्तु वक्ष्यामि सांप्रतम्
गमिताः परलोकाय परमास्त्रैः किरीटिना । अहन्यहनि संप्राप्ते तावकानां महारथाः
यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः । पार्थानामकरोद्भीष्मः सततं समिति क्षयम्
कुरुभिः सहितं भीष्मं युध्यमानं परंतप । अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः
दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे । अवर्तत महारौद्रः सततं समिति क्षयः
तस्मिन्नयुतशो राजन्भूयशश्च परंतपः । भीष्मः शान्तनवो योधाञ्जघान परामास्त्रवित्
येषामज्ञातकल्पानि नामगोत्राणि पार्थिव । ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः
दशाहानि तथा तप्त्वा भीष्मः पाण्डववाहिनीम् । निरविद्यत धर्मात्मा जीविते स परंतपः
स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिसुखं रणे। न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति