तत्रतत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः । ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् । शरैः संवार्य तान्वीरान्यज्जघान महाबलः
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम् । गाङ्गेयस्य रथाभ्याशमुपजग्मे महाबलः
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः । विन्दानुविन्दावावन्त्यौ नाजहुः संयुगं तदा
ततो भीमो महेष्वासः फल्गुनश्च महारथः । कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे
ततो बर्हिणवाजानामयुतान्यर्बुदानि च। धनञ्जयरथे तूर्णं पातयन्ति स्म भूमिपाः
ततस्तञ्शरजालेन सन्निवार्य महारथान् । पार्थः समन्तात्समरे प्रेषयामास मृत्यवे
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः । आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः । अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि
अथान्यद्धनुरादाय समरे भारसाधनम् । मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः
त्रिभिः शरैर्महाराज वासुदेवं कच पञ्चभिः । भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत्
ततो द्रोणो महाराज मागधश्च महारथः । दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः । कौरव्यस्य महासेनां जघ्नुतुः सुमहारथौ
जयत्सेनस्तु समरे भीमं भीमायुधं युधि। विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ
तं भीमो दशभिर्विद्धा पुनर्वीव्याध पञ्चभिः । सारथिं चास्य भल्लेन रथनीडादपातयत्
उद्भ्रांतैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः । मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः
द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः । विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः
तं भीमः समरश्लाघी गुरुं पितृसमं रणे। विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः। व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः
ततो भीष्मश्च राज च कौसल्यश्च बृहद्बलः । समवर्तन्त संक्रुद्धा भीमसेनधनञ्जयौ
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः । अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम्
शिखण्डी तु समासाद्य भरतानां पितामहम् । अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात्
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् । अयोधयन्रणे भीष्मं सहिताः सर्वसृञ्जयैः
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् । शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे
ततः प्रववृते युद्धं कौरवाणां भयावहम्। तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति
तावकानां जये भीष्मो ग्लह आसीद्विशांपते । तत्र हि द्यूतमासक्तं विजयायेतराय वा
धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत्। अभ्यद्रवत गाङ्गेयं मा भैष्ट रथसत्तमाः
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी । भीष्मं समभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् । आपतन्तीं महाराज वेलामिव महोदधिः
कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय। अयुध्यत महावीर्यः पाण्डवैः सह सृज्जयैः