स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः । मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे। तथेतराञ्शरान्घोराञ्शरैः सन्नतपर्वभिः
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्। तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत्
ततो धनञ्जयस्तत्र वर्तमाने महारणे । आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम्
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः । तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ
न शशंसुर्जयं तत्र तावकाः पुरुषर्षभाः । अथार्जुनो रणे भीमं योधयन्तं महारथान्
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्। आससाद रणे वीरांस्तावकान्दश भारत
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः। बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया
ततो दुर्योधनो राजा सुशर्माणमचोदयत् । अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः । जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ
तच्छ्रुत्वा वचनं तस्य त्रैगर्तः प्रस्थलाधिपः । अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ
रथैरनेकसाहस्रैः समन्तात्पर्यवारयत् । ततः प्रववृते युद्धमर्जुनस्य परैः सह
अर्जुनस्तु रणे शल्यं यतमानं महारथम्। छादयामास समरे शरैः सन्नतपर्वभिः
सुशर्माणं कृपं चव त्रिभीस्त्रिभिरविध्यत। प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम्
चित्रसेनं विकर्णं च कृतवर्माणमेव च । दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ
एकैकं त्रिभिरानर्च्छत्कङ्कबर्हिणवाजितैः । शरैरतिरथो युद्धे पीडयन्वाहिनीं तव
जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः । भीमं विव्याध तरसा चित्रसेनरथे स्थितः
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ।। विव्याधाते महाराज बहुधा मर्ममेदिभिः
चित्रसेनादयश्चैव पुत्रास्तव विशांपते । पञ्चाभिः पञ्चभिस्तूर्णं सुंयुगे निशितैः शरैः
आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष । तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ
अपीडयेतां समरे त्रिगर्तानां महद्बलम् । सुशर्माणि रणे पार्थं शरैर्नवभिराशुगैः
ननाद बलवन्नादं त्रासयानो महद्बलम् । अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ
विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः । तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ
क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम् । आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ
छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे । पातयामासतुर्वीरौ शिरांसि शतशो नृणाम्
रथाश्च बहवो भग्ना हयाश्च शतशो हताः। गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे
रथिनः सादिनश्चापि तत्रतत्र निषूदिताः। दृश्यन्ते बहवो राजन्वेषमानाः समन्ततः
हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः। रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी
छत्रैश्च बहुधा च्छिन्नैर्ध्वजैश्च विनिपातितैः । अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा । उष्णीषैर्ऋष्टिभिश्चैव चामरव्यजनैरपि