कृपश्च कृतवर्माच भगदत्तश्च वीर्यवान् । विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्। भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः
स च तान्प्रति विव्याध पञ्चभिः पञ्चभिः शरैःक । शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः
तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः । सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि
विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् । मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरुसि चार्पयत्
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः । ताजयामास समरे सिंहवाद्विननाद च
ते हि यत्ता महेष्वासाः पाण्डवं युद्धकोविदम् । त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन्
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे । पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः
स तु क्रोधसमाविष्टः पाण्डवानां महारथः । मद्रेश्वरं त्रिभिर्बाणैर्भृशं विद्ध्वा महायशाः
कृपं च नवभिर्बाणैर्भृशं विद्ध्वा समन्ततः । प्रग्ज्योतिषं शतैराजौ राजन्विव्याध सायकैः
ततस्तु सशरं चापं सात्वतस्य महात्मनः । क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत्
तथान्यद्धनुरादाय कृतवर्मा वृकोदरम् । आजघान भ्रुवोर्मध्ये नाराचेन परंतपः
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः । भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः
द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन्रथान् । तेऽपि तं समरे राजन्विव्यधुर्निशितैः शरैः
स तथा पीड्यमानोऽपि सर्वशस्त्रैर्महारथैः । मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् । प्रेषयामासुरव्याग्राः शतशोऽथ सहस्रशः
तस्य शक्तिं महावेगां भगदत्तो महारथः। चिक्षेप समरे वीरः स्वर्णदण्डां महमते
तोमरं सैन्धवो राजा पट्टसं च महाभुजः । शतघ्नीं च कृपो राजञ्छरं शल्यश्च संयुगे
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् । भीमसेनं समुद्दिश्य प्रेषयमासुरोजसा
तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः । पट्टसं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत्
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः । मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे। तथेतराञ्शरान्घोराञ्शरैः सन्नतपर्वभिः
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्। तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत्
ततो धनञ्जयस्तत्र वर्तमाने महारणे । आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम्
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः । तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ
न शशंसुर्जयं तत्र तावकाः पुरुषर्षभाः । अथार्जुनो रणे भीमं योधयन्तं महारथान्
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्। आससाद रणे वीरांस्तावकान्दश भारत
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः। बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया
ततो दुर्योधनो राजा सुशर्माणमचोदयत् । अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः । जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ