ऋतुकाले तु सा देवी दिव्यं गर्भमधारयत्। अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान्
जातं जातं च सा पुत्रं क्षिपत्यम्यसि भारत। सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम्
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत्। तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः। `अमीमांस्या कर्मयोनिरागमश्चेति शान्तनुः
स्मरन्पितृवचश्चैव नापृच्छत्पुत्रकिल्बिषम्। जाताञ्जातांश्च वै हन्ति सा स्त्री सप्त वरान्सुतान्
शान्तनुर्धर्मभङ्गाच्च नापृच्छत्तां कथंचन। अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव। उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः
आलभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः। अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः
मावधीः कस्य काऽसीति किं हिनत्सि सुतानिति। पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम्
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर। जीर्णस्तु मम वासोऽयं यथा स समयः कृतः
अहं गङ्गा जह्नुसुता महर्षिगणसेविता। देवकार्यार्थसिद्ध्यर्थमुषिताऽहं त्वया सह
इमेऽष्टौ वसवो देवा महाभागा महौजसः। वसिष्ठशापदोषेण मानुषत्वमुपागताः
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते। मद्विधा मानुषी धात्री लोके नास्तीह काचन
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता। जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः
देवानां समयस्त्वेष वसूनां संश्रुतो मया। जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः। स्वस्ति तेस्तु गमिष्यामि पुत्रं पाहि महाव्रतम्
अयं तव सुतस्तेषां वीर्येण कुलनन्दनः। संभूतोतिजनं कर्म करिष्यति न संशयः।। ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाधिकशततमोऽध्यायः।। 105
शान्तनोः कीर्तयिष्यामि सर्वानेव गुणानहम्। दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्। नित्यान्यासन्महासत्वे शान्तनौ पुरुषर्षभे
एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः। आसीद्भरतवंशस्य गोप्ता सर्वजनस्य च
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः। अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः
तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः। धर्म एव परः कामादर्थाच्चेति व्यवस्थितः
एवमासीन्महासत्वः शान्तनुर्भरतर्षभ। न चास्य सदृशः कश्चिद्धर्मतः पार्थिवोऽभवत्
वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम्। तं महीपा महीपालं राजराज्येऽभ्यषेचयन्
वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः। पतिं भारतगोप्तारं समपद्यन्त भूमिपाः
तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा। यज्ञदानक्रियाशीलाः समपद्यन्त भूमिपाः
शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा। नियमात्सर्ववर्णानां धर्मोत्तरमवर्तत
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः। ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने। वसन्सागरपर्यन्तामन्वशासद्वसुन्धराम्
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः। दानधर्मतपोयोगाच्छ्रिया परमया युतः
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः।। तेजसा सूर्यकल्पोऽभूद्वायुवेगसमो जवे। अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः