एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना । महोर्मिनद्धं सुमहत्तिमिनेव महाजलम्
हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे । याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम्
दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः । समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ । पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम्
उपेन्द्रसदृशश्यामो महाशाल इवोद्गतः । एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः
उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद्धनुः । पार्षतं याहि राजानं युध्यस्व च वृकोदरम्
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः । क्षत्रधर्मं तु संप्रेक्ष्य ततस्त्वां नियुनज्म्यहम्
एष चातिरणे भीष्मो दहते वै महाचमूम् । युद्धेषु सदृशस्तात यमस्य वरुणस्य च
पुत्रं समनुशास्यैवं भारद्वाजः प्रतापवान्। महारणे महाराज धर्मराजमयोधयत्
भगदत्तः कृपः शल्यः कृतवर्ता तथैव च। विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा। दशैते तावका योधा भीमसेनमयोधयन्
महत्या सेनया युक्ता नानादेशसमुत्थया । भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् । कृतवर्मा त्रिभिर्भाणैः कृपश्च नवभिः शरैः
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष । दशभिर्दशभिर्बाणैर्भीमसेनमताडयन्
सैन्धवश्च त्रिभिर्बाणैर्भीमसेनमडायत् । विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः
दुर्मर्षणस्तु विंशत्या पाण्डवं निशितैः शरैः। स तान्सर्वान्महाराज राजमानान्पृथक्पृथक्
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् । जघान समरे वीरः पाण्डवः परवीरहा
सप्तभिः शल्यमाविध्यत्कृतवर्माणमष्टभिः । कृपस्य सशरं चापं मध्ये चिच्छेद भारत
अथैनं च्छिन्नधन्वानं पुनर्विव्याध सप्तभिः । विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत्
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः । विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम्
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः । अथान्यद्धनुरादाय गौतमो रथिनां वरः
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः। स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् । गौतमं ताडयामास शरैर्बहुभिराहवे
सैन्धवस्य तथाऽश्वांश्च सारथिं च त्रिभिः शरैः । प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः । शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष । भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । चित्रसेनरथं राजन्नारुरोह त्वरान्वितः
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः । महारथाञ्शरैर्विद्ध्वा वारयित्वा च मारिष
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः । तदा न ममृषे शल्यो भीमसेस्य विक्रमम्
स संधाय शरांस्तीक्ष्णान्करमारपरिमार्जितान् । भीमं विव्याध समरे तिष्ठितिष्ठेति चाब्रवीत्