अयं हि दिवसस्तात यत्र पार्थो महाबलः। जिघांसुः समरे भीष्मं परं यत्नं करिष्यति
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च । योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः
दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः । नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः । रसते व्यथते भूमिः कम्पतीव च सर्वशः
कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः । शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम्
पपात महती चोल्का मध्येनादित्यमण्डलात्। सकबन्धश्च परिघो भानुमावृत्य तिष्ठति
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्। वेदयानो भयं घोरं राज्ञां देहावकर्तनम्
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः । कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् । अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रकमाः
वपूंषि च नरेन्द्राणां विगताभानि लक्षये । धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताःक
सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान्। पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे। अपास्यान्यान्रणे योधानभ्येष्यति पितामहम्
हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः । चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्
तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् । पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् । स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्
असंकल्पध्वजश्चैव याज्ञसेनिर्महाबलः । न चामङ्गलिके तस्मिन्प्रहरेदापगासुतः
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् । अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत्
युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसंगतः । मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम्
मनस्वी बलवाञ्शूरः कृतास्त्रोऽलघुविक्रमः । दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः
अजेयः समरे चापि देवैरपि सवासवैः । बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः । `अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम् ।' तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रत
पश्याद्यैतन्महाघोरे संयुगे वैशसं महत्। हेमचित्राणि शूरणां महान्ति च शुभानि च
कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः । छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः । वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः । याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च
रथनागहयावर्तां महाघोरां सुदुर्गमाम् । रथेन संग्रामनदीं तरत्येष कपिध्वजः
ब्रह्मण्यता दमो दानं तपश्च चरितं महत्। इहैव दृश्यते पार्थे भ्राता यस्य धनञ्जयः
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ । वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः । तपोभावितदेहस्य कोपो दहति वाहिनीम्
एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः । दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः