सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे। द्रोणेन वारिता यत्ता न चचाल पदात्पदम्
चेकितान रणे यत्तं भीष्मं प्रति जनेश्वर । चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत्
भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी । चेकितानं परं शक्त्या योधयामास भारत
तथैव चेकितानोऽपि चित्रसेनमवारयत् । तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे
अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत । विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह
दुःशासनोऽपि परया शक्त्या पार्थमवारयत्। कथं भीष्मं न नो हन्यादिति निश्चित्य भारत
सा वध्यमाना समरे पुत्रस्य तव वाहिनी । लोड्यते रथिभिः श्रेष्ठैस्तत्रतत्रैव भारत
अथ वीरो महेष्वासो मत्तवारणविक्रमः। समादाय महच्चापं मत्तवारणवारणम्
विधुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम् । पृतनां पाण्डवेयानां गाहमानो महाबलः
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् । प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत
अयं हि दिवसस्तात यत्र पार्थो महाबलः। जिघांसुः समरे भीष्मं परं यत्नं करिष्यति
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च । योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः
दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः । नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः । रसते व्यथते भूमिः कम्पतीव च सर्वशः
कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः । शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम्
पपात महती चोल्का मध्येनादित्यमण्डलात्। सकबन्धश्च परिघो भानुमावृत्य तिष्ठति
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्। वेदयानो भयं घोरं राज्ञां देहावकर्तनम्
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः । कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् । अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रकमाः
वपूंषि च नरेन्द्राणां विगताभानि लक्षये । धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताःक
सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान्। पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे। अपास्यान्यान्रणे योधानभ्येष्यति पितामहम्
हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः । चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम्
तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् । पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् । स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान्
असंकल्पध्वजश्चैव याज्ञसेनिर्महाबलः । न चामङ्गलिके तस्मिन्प्रहरेदापगासुतः
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् । अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत्
युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसंगतः । मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम्
मनस्वी बलवाञ्शूरः कृतास्त्रोऽलघुविक्रमः । दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः
अजेयः समरे चापि देवैरपि सवासवैः । बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः