यमदण्डोपमां घोरां चिक्षेप परमाहवे। तामापतन्तीं सहसा तस्य बाहुबलेरिताम्
सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः । ततः पपात सहसा सहोल्केव हतप्रभा
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते । महता रथवंशेन वारयामास माधवम्
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्। दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह
तथा कुरुत कौरव्या यथाः वः सात्यको युधि । न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात्
तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् । तथेति च वचस्तस्य परिगृह्य महारथाः
शैनेयं योधयामासर्भीष्मायाभ्युद्यतं रणे। `अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे।' काम्भोजराजो बलवान्वारयामास संयुगे
आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः। पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप
सुदक्षिणस्तु समरे पुनर्विव्याध तं पञ्चभिः । सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम्
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे। यदाभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः
विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम् । भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ
अश्वत्थामा रणे क्रुद्धः समियाद्रथसत्तमः। ततः प्रववृते युद्धं तयोस्तस्य च भारत
विराटो दशभिर्भल्लैराजघान परंतप । यतमानं महेष्वासं द्रौणिमाहवशोभिनम्
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा। गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ
अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः। विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्। यद्द्रौणिसायकान्घोरान्प्रत्यवारयतां युधि
सहदेवं तथाऽऽयान्तं कृपः शारद्वतोऽभ्ययात्। यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्
कृपश्च समरे शूरो माद्रीपुत्रं महारथम् । आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः । अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् । माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् । तथैव पाण्डवो राजञ्छारद्वतममर्षणम्
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया । तयोर्युद्धं समभवद्धोररूपं भयावहम्
नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः । विव्याध सायकैः षष्ट्या रक्षन्भीष्मं महाबलम्
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता। विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ । अन्योन्यं जघ्नुतुर्वीरौ गोष्ठे गोवृषभाविव
घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम् । दुर्मुखः समरे प्रायाद्भीष्यहेतोः पराक्रमी
हैडिम्बस्तु रणे राजन्दुर्मुखं शत्रुतापनम् । आजघानोरसि क्रुद्धः शरेणानतपर्वणा
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः। षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि
धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाङ्क्षिणम् । हार्दिक्यो वारयामास रथश्रेष्ठं महारथः
हार्दिक्यः पार्षतं चापि विद्ध्वा पञ्चभिरायसैः । पुनः पञ्चाशता तूर्णं तिष्ठतिष्ठेति चाब्रवीत्