माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः । आजघान रणे राजन्प्रहसन्निव भारत
तथैव राक्षसो राजन्माधवं नवभिः शरैः । अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम्
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे । राक्षसाय सुसंक्रुद्धो माधवः परवीरहा
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् । विव्याध विशिखैस्तीक्ष्णैः सिंहनाद ननाद च
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा। धैर्यमालम्ब्य तेजस्वी जहास च ननाद च
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः । ताडयामास समरे तोत्रैरिव महागजम्
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः । प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः । चिच्छेद शतधारेण भल्लेन कृतहस्तवत्
अथान्यद्धनुरादाय वेगवत्परवीरहा । भगदत्तं रणे क्रुद्धं विव्याध निशितैः शरैः
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् । शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम्
यमदण्डोपमां घोरां चिक्षेप परमाहवे। तामापतन्तीं सहसा तस्य बाहुबलेरिताम्
सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः । ततः पपात सहसा सहोल्केव हतप्रभा
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते । महता रथवंशेन वारयामास माधवम्
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्। दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह
तथा कुरुत कौरव्या यथाः वः सात्यको युधि । न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात्
तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् । तथेति च वचस्तस्य परिगृह्य महारथाः
शैनेयं योधयामासर्भीष्मायाभ्युद्यतं रणे। `अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे।' काम्भोजराजो बलवान्वारयामास संयुगे
आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः। पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप
सुदक्षिणस्तु समरे पुनर्विव्याध तं पञ्चभिः । सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम्
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे। यदाभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः
विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम् । भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ
अश्वत्थामा रणे क्रुद्धः समियाद्रथसत्तमः। ततः प्रववृते युद्धं तयोस्तस्य च भारत
विराटो दशभिर्भल्लैराजघान परंतप । यतमानं महेष्वासं द्रौणिमाहवशोभिनम्
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा। गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ
अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः। विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्। यद्द्रौणिसायकान्घोरान्प्रत्यवारयतां युधि
सहदेवं तथाऽऽयान्तं कृपः शारद्वतोऽभ्ययात्। यथा नागो वने नागं मत्तो मत्तमुपाद्रवत्
कृपश्च समरे शूरो माद्रीपुत्रं महारथम् । आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः । अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् । माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः