भीष्मस्याभिमुखान्यातान्वारयामासुराहवे । धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः
अभ्यद्रवत संरब्धो भीष्ममेकं महारथः । एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः
अभ्यद्रवत माभैष्ट भीष्मो हि प्राप्स्यते न वः । अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः
किमु भीष्मो रणे वीरा गतसत्वोऽल्पजीवितः। इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः
अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति। आगच्छतस्तान्समरे वार्योघानचला इव
अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः । दुःशासनो महाराज भयं त्यक्त्वा महारथः
भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् । तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति
अभ्यद्रवन्त संग्रामे तव पुत्रान्महारथाः । तत्राद्भुतमपश्याम चित्ररूपं विशांपते
दुःशासनरथं प्राप्य यत्पार्थो नात्यवर्तत । यथा वारयते वेला क्षुब्धतोयं महार्णवम्
तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत्। उभौ तौ रथिनां श्रेष्ठावुभौ भारतदुर्जयौ
उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत। तथा तौ जातसंरम्भावन्योन्यवधकाङ्क्षिणौ
समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा। दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः
वासुदेवं च विंशत्या ताडयामास संयुगे। ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम्
दुःशासनं शतेनाजौ नाराचानां समार्पयत्। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे
यथैव पन्नगा राजंस्तटाकं तृषितास्तथा।' दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः। ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः
ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे। यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः
सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना। व्यराजत रणे पार्थः किंशुकः पुष्पवानिव
दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः। पर्वणीव सुसंक्रुद्धो राहुः पूर्णं निशाकरम्
पीड्यमानो बलवता पुत्रस्तव विशांपते । विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः
तस्य पार्थो धनुश्छित्वा रथं चास्य त्रिभिः शरैः । आजघान ततः पश्चात्पुत्रं ते निशितैः शरैः
सोऽन्यत्कार्मुकमादाय भीमस्य प्रमुखे स्थितः। अर्जुनं पञ्चाविंशत्या बाह्वोरुरसि चार्पयत्
तस्य क्रुद्धो महाराज पाण्डवः शत्रुतापनः । अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून्
अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव । यतमानस्य पार्थस्य तदद्भुतमिवाभवत्
पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव । ततः क्रुद्धो रणे पार्थः शरान्संधाय कार्मुके
प्रेषयामास समरे स्वर्णपुङ्खाञ्छिलाशितान् । न्यमञ्जंस्ते महाराज तस्य काये महात्मनः
यथा हंसा महाराज तटाकं प्राप्य भारत। पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना
हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत्। अगाधे मञ्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा
प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशांपते । अवारयत्ततः शूरो भूय एव पराक्रमी
शरैः सुनिशितैः पार्थं यथा वृत्रं पुरन्दरः। निर्बिभेद महाकायो विव्यथे नैव चार्जुनः
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे। आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे