अद्य ते पुरुषव्याघ्र प्रतरिष्ये ऋणं तव। भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे
इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रवपञ्छरैः। आससाद दुराधर्षः पाण्डवानामनीकिनीम्
अनीकमध्ये तिष्ठन्तं गाङ्गेयं भारतर्षभ । आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन्
दशमेऽहनि भीष्मस्तु दर्शयञ्शक्तिमात्मनः । राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन
पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः । तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः
हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् । सारोहाणां महाराज हयानां चायुतं तथा
पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः । प्रजज्वाल रणे भीष्मो विधूम इव पावकः
न चैवं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् । उत्तरं मार्गमास्थाय तपन्तमिव भास्करम्
ते पाण्डवेवाः संरब्धा महेष्वासेन पीडिताः । वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः
स वध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा । अवकीर्णो महेष्वासैः शैलो मेघैरिवावृतः
पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् । महत्या सेनया सार्धं ततो युद्धमवर्तत
अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् । शिखण्डिनमथोवाच समभ्योहि पितामहम्
न चापि भीस्त्वया कार्या भीष्मादद्य कथंचन । अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात्
एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ । अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः । हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम्
विराटद्रुपदौ वृद्धौ कुन्तिभोजस्य दंशितः। अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः । नकुलः सहदेवश्च धर्मराजश्च वीर्यवान्
तथेतराणि सैन्यानि सर्वाम्येव विशांपते । समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम्
प्रत्युद्ययुस्तावकाश्च समेतांस्तान्महारथान् । यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु
चित्रसेनो महाराज चेकितानं समभ्यायात् । भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा
धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् । त्वरमाणं रणे यत्तं कृतवर्मा न्यवरायत्
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् । त्वरमाणो महाराज सौमदत्तिर्न्यवारयत्
तथैव नकुलं शूरं किरन्तं सायकान्बहून् । विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम्
सहदेवं तथा राजन्यान्तं भीष्मरथं प्रति। वारयामास संक्रुद्धः कृपः शारद्वतो युधि
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् । भीष्मस्य निधनप्रेप्सुं दुर्मुखोऽभ्यज्रवद्बली
सात्यकिं समरे क्रुद्धमार्स्यशृङ्गिवारयत् । `भीष्मस्य वधमिच्छन्तं पाण्डवप्रीतिकाम्यया
अभिमन्युं महाराज यान्तं भीष्मरथं प्रति। सुदक्षिणो महाराज काम्भोज प्रत्यवारयत्
विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ । अश्वत्थामा ततः क्रुद्धो वारयामास भारत
तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् । भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत्
अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् । भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश
दुःशासनो महेष्वासो वारयामास संयुगे। अन्ये च तावका योधाः पाण्डवानां महारथान्