यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे। `याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे
त्वां गता हि मम प्रामा वसु यन्मेऽस्ति किंचन।' याचे त्वां सुरगर्भाभे भार्या मे भव शोभने
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च। यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा
सा तु दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम्। वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम्। प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम्
कालोऽयमिति मत्वा सा वसूनां शापचोदिता। उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा
भविष्यामि महीपाल महिषी ते वशानुगा। न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथंचन
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम्। न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम्
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव। वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्
एष मे समयो राजन्भज मां त्वं यथेप्सितम्। अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो
तथेति सा यदा तूक्ता तदा भरतसत्तम। प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्
प्रतिज्ञाय तु तत्तस्यास्तथेति मनुजाधिपः। रथमारोप्य तां देवीं जगाम स तया सह
सा च शान्तनुमभ्यागात्साक्षाल्लक्ष्मीरिवापरा। आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान्। स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च
उपचारेण च रहस्तुतोष जगतीपतिः। स राजा परमप्रीतः परमस्त्रीप्रलालितः
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी। मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी
भाग्योपनतकामस्य भार्या चोपनताऽभवत्। शन्तनोर्नृपसिंहस्य देवराजसमद्युतेः
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः। राजानं रमयामास यथा रज्येत स प्रभुः
संवत्सरानृतून्मासान्बुबुधे न बहून्गतान्। रममाणस्तया सार्धं यथाकामं नरेश्वरः
दिविष्ठान्मानुषांश्चैव भोगान्भुङ्क्ते स वै नृपः।' आसाद्य शान्तनुः श्रीमान्मुमुदे योषितां वराम्
ऋतुकाले तु सा देवी दिव्यं गर्भमधारयत्। अष्टावजनयत्पुत्रांस्तस्मादमरसन्निभान्
जातं जातं च सा पुत्रं क्षिपत्यम्यसि भारत। सूतके कण्ठमाक्रम्य तान्निनाय यमक्षयम्
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत्। तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः। `अमीमांस्या कर्मयोनिरागमश्चेति शान्तनुः
स्मरन्पितृवचश्चैव नापृच्छत्पुत्रकिल्बिषम्। जाताञ्जातांश्च वै हन्ति सा स्त्री सप्त वरान्सुतान्
शान्तनुर्धर्मभङ्गाच्च नापृच्छत्तां कथंचन। अष्टमं तु जिघांसन्त्यां चुक्षुभे शान्तनोर्धृतिः
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव। उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः
आलभन्तीं तदा दृष्ट्वा तां स कौरवनन्दनः। अब्रवीद्भरतश्रेष्ठो वाक्यं परमदुःखितः
मावधीः कस्य काऽसीति किं हिनत्सि सुतानिति। पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम्
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर। जीर्णस्तु मम वासोऽयं यथा स समयः कृतः