कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् । पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम्
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः। त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि। अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना । कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः
नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत्। युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ। निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः
अनेकशतसाहस्रावकानां महारथाः । तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम्
यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः । पार्यानामकरोद्भीष्मः सततं समिति क्षयम्
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः । पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन्
दशमेऽहनि संप्राप्ते ततस्तां रिपुवाहिनीम् । कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः
न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज । अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम्
अथोपायान्महाराज सव्यसाची धनञ्जयः । त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः
सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः । शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे
तस्य शब्देन वित्रस्तास्तावका भारतर्षभ । सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात्
जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् । दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः
एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः। दहते मामकान्सर्वान्कृष्णवर्त्मेन काननम्
पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः । पण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे
यथा पशुगणान्पालः संकालयति कानने । तथेदं मामकं सैन्यं काल्यते शत्रुतापन
धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः । भीमोऽप्येवं दुराधर्पो विद्रावयति मे बलम्
सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ। अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम
धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः । व्यद्रावयेतां सहसा सैन्यं मम महारणे
वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः । नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत
ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रमम्। पर्याप्तस्तु भवाञ्शीघ्रं पीडितानां गतिर्भव
एवमुक्तो महाराज पिता देवव्रतस्तव। चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः
तव संधारयन्पुत्रमब्रवीच्छंतनोः सुतः। दुर्योधन विजानीहि स्थिरो भूत्वा विशांपते
पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन् । प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम्
पूर्वकालं तव मया प्रतिज्ञानं महाबल । हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम्
संग्रामादपयास्यामि ह्येतत्कर्म समाहितम् । इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ
अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम् । अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान्
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः।' किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः